________________ : 50 : (33) श्रीयोधपुरनगरात् सूर्यपुरं दक्षिणस्यां दिशि वर्तत इति तां दिशमुद्दिश्य गमनायाह शैलादिति / शैलादस्मा-दुपसर पथा दाक्षिणात्येन बन्धो!, गन्धोद्रेको-ल्लसितकुसुम-स्तम्भितेन्दिन्दिरेषु // स्थाने स्थाने सरससरसः काननेष्वंशुपूरैमोदं सम्पा-दय कुमुदिनी-फुल्लपुष्पेक्षणानाम् // 33 // ( अन्वयः ) बन्धो ! अस्मात् शैलात् दाक्षिणात्येन पथा उपसर, स्थाने स्थाने गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु काननेषु सरससरसः कुमुदिनीफुल्लपुष्पेक्षणानाम् अंशुपूरैर्मोदं सम्पादय // 33 // ___ (प्रकाशः ) बन्धो ! भ्रातः, अस्मात् शैलात्-पुरोवर्तिपर्वतात् , दाक्षिणात्येन पथा-अवाचीनेनाध्वना, याम्यदिशि गच्छता मार्गणेति यावत् , दक्षिणस्यां भवो दाक्षिणात्यः ‘दक्षिणापश्चात्पुरसस्त्यण' / 6 / 3 / 13 / इति त्यण, उपसर-प्रयाहि, स्थानेस्थाने-अन्तराऽन्तरा, गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु-गन्धस्योद्रेकस्तेनोल्लसितं तादृशं च तत् कुसुमं तत्र स्तम्भिता इन्दिन्दिरा यत्र तेषु, परिमलप्रकर्षप्रकाशितप्रसूनसंसक्तचञ्चरीकेषु, इन्दति कुसुमैरिन्दिन्दिरः 'स्थविर-'। (उणा० 417) इतीरे निपात्यते, 'चञ्चरीकः शिलीमुखः, इन्दिन्दिरः' / इति हैमः, काननेषु-षण्डेषु, 'षण्डं काननं वनम्' इति हैमः, सरस