________________ : 49 : आकान्तः-करणविषये स्थापयोक्तं मयेन्दो !s भीष्टं स्थानं व्रजति हि जनः प्राञ्जलेनाध्वना द्राक् / 32 // ( अन्वयः ) इन्दो ! मया उक्तं प्रचुरकदलीकाननैः कान्तदेशं स्थाने स्थाने जलधिदयितासन्ततिध्वस्तखेदं तस्य मार्गम् आकर्ण्य अन्तःकरणविषये स्थापय हि जनः प्राञ्जलेन अध्वना अभीष्टं स्थानं द्राक् व्रजति // 32 // (प्रकाशः) इन्दो !-अयि शीतकर ! मयोक्तम्-मत्कथितम् , अस्माभिरुपदर्शितमितियावत् , प्रचुरकदलीकाननैः-कदल्याः काननानि प्रचुराणि च तानि कदलीकाननानि तैः, भूरिरम्भाविपिनैः, कदिः सौत्रः कद्यते कदली * मृदिकन्दि-' ( उणा० 165 ) इत्यशः, केन वायुना दल्यते वा, के दलमस्या इति वा, 'रम्भा मोचा कदल्यपि' इति हैमः, कान्तदेशम्-मनोरमप्रदेशम् , स्थानेस्थाने-प्रतिस्थलम् , जलधिदयितासन्ततिध्वस्तखेदम्जलधेर्दयिता तस्याः सन्ततिस्तया ध्वस्तः खेदो यत्र तम् , सरित्सङ्घातशमितपरिश्रमम् , 'नदी...समुद्रदयिते 'ति हैमः / तस्य मार्गम्सूर्यपुरपत्तनपन्थानम् , आकर्ण्य-निशम्य, अन्तःकरणविषये-मानसदेशे, 'अन्तःकरणं मानसं मनः' इति हैमः, स्थापय-निधेहि, हि-यतः, जनः-लोकः, प्राञ्जलेन-ऋजुना, 'ऋजुस्तु प्राञ्जलो असः' इति हैमः, अध्वना-निगमेन अतन्ति अत्र पान्था अध्वा, * अर्धच् ' ( उणा० 909) इति क्वनिष् -- मार्गोsध्वा पन्था निगमः ' इति हैमः, अभीष्टं स्थानम्-ईप्सितस्थलम् , द्राक्-अञ्जसा, ब्रजति-प्रयाति / अर्थान्तरन्यासः // 32 //