________________ यमलविहरणलब्धोल्लासः, तपनतनयातीरकोटीरम्-तपनस्य तनया तस्यास्तीरं तस्य कोटीरम् , तापीतटोष्णीषम् , ' तापी तपनी तपनात्मजा ' ' तटं तीरं प्रतीरं च ' ' कोटीरमुष्णीषम् ' इति हैमः / सूर्य्यद्रङ्गः-सूर्यपुरम् , (सुरतनगरम् ) द्रमन्त्यत्रेति द्रङ्गः 'द्रमो णिद्वा' (उणा० 95) इति गः, पूः पूरी द्रङ्गः,' इति हैमः, ते-तव, गन्तव्यः-यातव्यः इतस्त्वया सूर्यपुरं गमनीयमितियावत् ‘कृत्यस्य वा' / 2 / 2 / 88 / इति षष्ठी, तत्र-तस्मिन् , सूर्यपुर इतियावत् , गत्वा-समेत्य,भाग्यसम्भारलभ्यः सुकृतसञ्चयसङ्गम्यः, पुण्यप्रकर्षप्राप्य इत्यर्थः, त्रिभुवनजनध्येयपादारविन्दः-त्रयाणां भुवनानां समाहारस्तत्र तस्य वा ये जनास्तैः ध्येयं पादञ्च तदरविन्दं तत् यस्य सः त्रिजगज्जनमननीयपदपङ्कजः, श्रीतपगणपति:श्रीमत्तपागच्छाधीश्वरः, आचार्यभट्टारकश्रीविजयप्रभसूरीश्वरमहाराज इतियावत् , प्रकृते तपशब्दस्तपाशब्दश्च रूढाववसेयौ तेन कथं न श्रीतपोगणपतिरिति न शङ्कयम् , यद्वा तपति तपः अदन्तो यौगिको विज्ञेयः स एव ग्रीष्मे रूढः, द्रष्टव्यः-दर्शनीयः / अनुप्रासः॥३१॥ (32) - सूर्यपुरगमनाय पथपरिचयावधारणायोन्मुखीकरोतीन्दं मार्गभितिमार्ग तस्य प्रचुरकदली-काननैः कान्तदेशं, स्थाने स्थाने जलधिदयिता-सन्ततिध्वस्तखेदम् //