________________ :47 : कुर्यात् / श्रिया सम्पादितमेतत् , लक्ष्म्यां विद्युतोऽधिकं चाञ्चल्यं, नदीभ्यो विशेषेण निम्नगतिः धूमाद्विशिष्यते श्यामलतेतिभावः / सापि-सा श्रीरपि, भ्रातुर्भवतः-सहोदरस्वरूपस्य श्रीमतः, अनुभावात्-प्रभावात् माननीया-अभिलषणीया, सम्मान्येतियावत् , भवति-जायते, हि-यतः,विश्वे-संसारे, कः जनः-को लोकः, 'लोको जनः प्रजा' इति हैमः / राज्ञो भगिन्या:-प्रजापालस्वसुः, दोषान्-दुर्गुणान् , गणयति-सङ्ख्याति / व्यतिरेकगर्भितार्थान्तरन्यासः // 30 // इतस्ते गन्तव्यत्वेन निर्णीतमस्ति नगरं सूर्यपुरमित्याहगन्तव्य इतिगन्तव्यस्ते तपनतनया-तीरकोटीरमिन्दो !, सूर्यद्रको गुरुपदयुग-स्पर्शसम्प्राप्तरङ्गः॥ गत्वा तत्र त्रिभुवनजन-ध्येयपादारविन्दो, द्रष्टव्यः श्री-तपगणपति-र्भाग्यसम्भारलभ्यः॥३१॥ ( अन्वयः) इन्दो ! गुरुपदयुगस्पर्शसम्प्राप्तरङ्गः तपनतनयातीरकोटीरं सूर्यद्रङ्गः ते गन्तव्यः, तत्र गत्वा भाग्यसम्भारलभ्यः त्रिभुवनजनध्येयपादारविन्दः श्रीतपगणपतिः द्रष्टव्यः॥३१॥ (प्रकाशः) इन्दो !-हे चन्द्र ! इन्दति इन्दुः 'भृमृ-' ( उणादि-७१६.) इत्युः / गुरुपदयुगस्पर्शसम्प्राप्तरङ्ग:-गुरोःपदं तस्य युगं तस्य स्पर्शस्तेन सम्प्राप्तो रङ्गो येन सः, सूरिक्रम