________________ : 46 : (30) सरोजिनीनिवासिनी त्वद्भगिनी लक्ष्मीः सदोषाऽपि त्वदनुभावादेव विश्वमान्येत्याह-येतिया चाञ्चल्या-भवि विजयते विद्युतो नीचसङ्गात् , सिन्धुरन्ध-करणगुणतो श्यामलां धूमलेखाम् // साऽपि भ्रातु-भवति भवतो माननीयाऽनुभावाद्विश्वे दोषान् गणयति जनः कोहि राज्ञो भगिन्याः॥ ( अन्वयः ) या भुवि चाञ्चल्यात् विद्युतः नीचसङ्गात् सिन्धूः अन्धङ्करणगुणतः श्यामलां धूमलेखां विजयते साऽपि भ्रातुः भवतः अनुभावात् माननीया भवति, हि विश्वे कः जनः राज्ञः भगिन्याः दोषान् गणयति // 30 // , (प्रकाशः ) या-लक्ष्मीः, भुवि-जगत्याम् , चाञ्चल्यात्चपलतायाः, अस्थिरत्वादितियावत् , विद्युतः-सौदामनीः, नीचसङ्गात्-निम्नगमनात्, सिन्धूः-निम्नगाः, नदीरितियावत् , सिन्धुः शैवलिनी वहा च हूदिनी, स्रोतस्विनी निम्नगा' इति हैमः, अन्ध. करणगुणतः-आन्ध्यसम्पादकस्वभावात् , श्यामलां धूमलेखाम्नीलामनलध्वजराजीम् , ' श्यामलः, श्यामः कालो नीलः' इति हैमः / विजयते-पराभवति, परावेर्जेः' / 3 / 3 / 28 / इत्यात्मनेपदम् / विदितमेतद्विश्वे यत् चञ्चला चपलैक, निम्नगा निम्नगैव, श्यामला धूमलेखैव / नातिकामति कश्चनापि ताः / यदि ता अभिभवितुमभिलषति कश्चित्तदा तत्तद्गुणानाधिक्येन स्वायत्ती