________________ प्राकृतव्याकरणस्य चतुर्थः - काचिन्मुग्धा स्त्री निजमुखकर:-निजमुखकिरणरस्वकारे 'कर' हस्तं प्रतिप्रेक्षते-पश्यति / शशिमण्डलचन्द्रिकया पूर्णशशाङ्कमण्डलकान्त्या दूरे दूरस्थे पदाथे पुनः किं न पश्यति, अपि तु पश्यत्येव / / 23 // 349 जहिं मरगय-कन्तिए संबलिअं॥ / 'जहि' यथा 'मरमयकन्तिए' मरकतरत्नकान्त्या 'संव, लियं मिषितम् // . . . 35. तुच्छ-मज्महे तुच्छ जाम्पिरहे। __ तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे पिय-वयणु अलहन्तिमहे तुच्छकाय-वम्मह-निवासहे / / 24 // भन्नु जु तुच्छउं तहे षणहे, तं अक्खणह न जाइ / कटरि थणंतरु मुद्धडहे, जे मणु विञ्णि माइ // 25 / / (युग्मम्) 'तुच्छरागेति' नायकस्य दूतीकृतामन्त्रणं, हे तुच्छराग! स्वल्पो रागः स्नेहो यस्य नायकस्य स तथा; तस्या नायिकायाः अन्यधत्तुच्छं तदाख्यातुं न.याति, नायिकायाः किं. भूतायाः ? तुच्छमध्यायाः, पुनः किं भूतायाः? तुच्छजल्पन शीलायाः, पुनः किं भूतायाः? तुच्छाच्छरोमावल्याः, पुनः किं भूतायाः ? तुच्छतरहासायाः, पुनः किं भूतायाः ? प्रियवचनमभमानायाः, पुनः किं भूतायाः ? तुच्छकायमन्मथनिवासायाः तुच्छकाये मन्मथनिवासो यस्याः सा, तुच्छकायत्वं भर्तुविरहात,'. 'कटरि'-इत्याश्चर्ये येन कारणेन 'मुद्धडहे' मुग्धायाः स्तनान्तरं मनोवम॑नि न माति, स्तनयोरतिपीनत्वाद, अन्तरस्यातितुच्छत्वं वणितमित्यर्थः // 24 // // 25 / / युग्मम् //