________________ 40 प्राकृतव्याकरणस्य 'वच्छहे' जनो वृक्षात् फलानि. ग्रहांति, कटुपल्लवानि वर्जयति, तथापि महाद्रुमस्तान् पल्लवान् उत्सङगे धरति, क इव ? यथा सुजनः कटुपल्लवप्रायानपि जनान् धरति न तु तिरस्करोतीत्यर्थः // 11 // 337 दूरुड्डाणे पडिउ खलु, अप्पणु जणु मारेइ / जिह गिरि-सिङ्ग पडिआ सिल, अन्नुवि चूरु करेइ / / 12 / / दूरोड्डोनेन दूरगमनेन पतितः खलो दुर्जन आत्मानं जनं च मारयति / दृष्टान्तमाह-यथा गिरिशृङ गेभ्यः पतिता शिला आत्मानमन्यमपि पतनस्थानस्थं चूर्णीकरोतीत्यर्थः॥१२॥ 338 जो गुण गोवइ अप्पणा, पयडा करइ परस्सु / _तसु हउं कलि-जुगि दुल्लहहो बलि किज्जउं सुअणस्सु // 13 // य आत्मीयगुणान् गोपयति, परस्य गुणान् प्रकटान् करोति, अहं तस्य कलियुगे दुर्लभस्य स्वजनस्य सज्जनस्य वा बलि-पूजां क्रिये? (करोमि) इति भावः / / 13 // 339 तणहं तइज्जी भंगि नवि, तें अवड-यडि वसन्ति / अह जणु लग्गिवि उत्तरइ, अह सह सई मज्जति / / 14 / / तणहं' तृणानां तृतीया-भङ्गी नापि नैव तृतीयः प्रकारोंऽस्ति, तेन कारणेन अवटतटे कूपतटे वसन्ति / अथ यो जनस्तृणानि लगित्वा उत्तरति, अथ इति अथवा तृणानि जनेन सह स्वयं मज्जन्ति / अन्योऽपि यः प्रकारद्वयं कर्तु कामो भवति स विषमस्थाने वसति / प्रकारद्वयं किं ? म्रियते शत्रुनु वा जयति इति भावार्थः / / 14 //