________________ 161 श्रीकाव्यानुशासनसूत्राणि 15 विनयोपशमवान् धीरशान्तः / 16 शूरो मत्सरी मायी विकत्थनश्छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः / 17 ज्येष्ठायामपि सहृदयो दक्षिणः / 18 व्यक्तापराधो धृष्टः / 19 एकभार्योऽनुकूलः / 20 गूढापराधः शठः / 21 व्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः / / 22 तद्गुणा स्वपरसामान्या नायिका त्रेधा / . 23 स्वयमूढा शीलादिमती स्वा / 24 वयःकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा / 25 धीरा धीराधीराऽधीराभेदादन्त्ये त्रेधा / 26 षोढापि ज्येष्ठाकनिष्ठाभेदाद्वादशधामध्याप्रौढ्योः प्रत्येकं त्रिभेदत्वम् / 27 सोत्पासवक्रोक्त्या सवाष्पया वाक्यारुष्येण क्रोधिन्यो मध्याधीराद्याः / 28 उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संतर्जनघाताभ्यां प्रौढाधीराद्याः / 29 परोढा परस्त्री . कन्या च / 30 गणिका सामान्या /