________________ 162 श्रीहेमचन्द्राचार्य प्रणीतानि 31 स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धा अभिसारिका चेति स्वस्त्रीणामष्टावस्थाः / 32 अन्त्यव्यवस्था परस्त्री / 33 ईर्ष्याहेतुः सपत्नी प्रतिनायिका / 34 सत्त्वजा विंशतिः स्त्रीणामलंकाराः / 35 ते चायनजाः / 36 भावहावहेलास्त्रयोऽङ्गजा अल्पभूयोविकारात्मकाः / 37 लीलादयो दश स्वाभाविका: / 38 वाग्वेष चेष्टितैः प्रियस्यानुकृतिर्लीला / 39 स्थानादीनां वैशिष्ट्य विलासः / 40 गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः / 41 इष्टेऽप्यवज्ञा विवोकः / 42 वागङ्गभूषणानां व्यत्यासो विभ्रमः / 43 स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाष संकरः किलि किंचितम् / 4.4 प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् / 45 अधरादिग्रहादुःखेऽपि हर्ष: कुट्टमितम् / . 46 मसृणोऽङ्गन्यासो ललितम् / 47 कर्त्तव्यवशादायते एव हस्तादिकर्मणि यवैचित्र्यं स विलासः /