________________ 160 श्रीहेमचन्द्राचार्य प्रणीतानि 30 यथोत्तर पूर्वस्य हेतुत्वे कारणमाला / 31 स्वातन्त्र्याऽङ्गत्वसंशयैकपद्यै रेषामेकत्र स्थितिः संकरः / इति षष्ठोऽध्यायः / 1 समग्रगुणः कथाव्यापी नायकः / 2 शोभाविलासमधुस्ललितमाधुर्यस्थैर्यगाम्भीयौदार्यतेजास्यष्टौ सत्त्वजास्तद्गुणाः। 3 दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा / 4 धीरे गतिदृष्टी सस्मितं वचो विलासः / 5 मृदुशृङ्गारचेष्टा ललितम् / 6 क्षोभेप्यनुल्वणं माधुर्यम् / ' 7 विघ्नेप्यचलं स्थैर्यम् / 8 हर्षादिविकारानुपलम्भकृद्गाम्भीर्यम् / 9 स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् / 10 पराधिपाद्यसहन तेजः / 11 धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा / 12 दक्षिणधृष्टानुकूलशठभेदादेकैकश्चतुर्धा / 13 गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासत्त्वो दृढव्रतो धीरोदात्तः / 14 कलासक्तः सुखी शृगारी मृदुनिश्चिन्तो धीरललितः /