________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् नाम्यादेरेव ने / 2 / 3 / 86 // मदुरुपसर्गान्तःस्थाद् - रादेः परस्य नाऽऽगमे सति नाम्यादेरेव धातोः परस्य स्वरादुत्तरस्य कृतस्य 'नो ण्' स्यात् / प्रेक्षणम्, रोङ्गणम्, प्रेङ्गणीयम् / सान्यादेरिति किम् ? प्रमङ्गनम् // 86 // . व्यञ्जनादे म्युपान्त्याद् वा / 2 / 3 / 87 // अदुरुपसर्गान्तःस्थाद् रादेः परो यो व्यञ्जनादि म्युपान्त्यो धातुस्ततः परस्य कृतः स्वरात्परस्य ‘नो ण् वा' स्यात् / प्रमेहणम्, प्रमेहनम् / व्यञ्जनादेरिति किम् ? प्रोहणम् / नाम्युपान्त्यादिति किम् ? प्रवपणम्, प्रवहणम् / स्वरादित्येव - प्रभुग्नः / अदुरित्येव- दुर्मोहनः / ल-च-टादिवर्जनं किम् ? प्रभेदनम्, प्रभोजनम् / “स्वराद् (2,3,85)" इत्यनेन नित्यप्राप्ते विभाषेयम् / / 87 / / र्वा / 2 / 3 / 88 // अदुरुपसर्गान्तःस्थाद् रादेः परस्य प्रयन्तस्य धातोर्विहितस्य स्वरात्परस्य कृतो 'नो ण् वा' स्यात् / प्रमङ्गणा, प्रमङ्गना / विहितविशेषणं किम् ? प्रयाप्यमाणः प्रयाप्यमान इति क्यान्तरेऽपि स्यात् // 88 // . निर्विण्णः / 2 / 3 / 89 // निर्विदेः सत्ता-लाभ-विचारार्थात् परस्य क्तस्य 'नो णत्वम्' स्यात् / निर्विणः / / 89 // / न ख्या-पूग-भू-भ. -कम-गम-प्याय-वेपोऽणेश्च / 2 / 3 / 90 // अदुरुपसर्गान्तःस्थाद् रादेः परेभ्यः ख्यादिभ्योऽण्यन्त-ण्यन्तेभ्यः परस्य कृतो 'नो ण् न' स्यात् / प्रख्यानम्, प्रख्यापनम् / प्रपवनम्, प्रपावनम् / प्रभवनम्, प्रभावना / प्रभायमानम्, प्रभापना / प्रकामिनौ, प्रकामना / अप्रगमनिः, प्रगमना / प्रप्यानः, प्रप्यायना / प्रवेपनीयम्, प्रवेपना // 90 //