________________ 90 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् धातुपाठे क-खादिः षान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातौ परेऽदुरुपसर्गान्तःस्थाद् रादेः परस्य ने! ‘ण वा' स्यात् / प्रणिपचति, प्रनिपचति / अकखादीति किम् ? प्रनिकरोति, प्रनिखनति / अषान्त इति किम् ? प्रनिद्वेष्टि / पाठ इति किम् ? प्रनिचकार // 8 // . द्वित्वेऽप्यन्तेप्यनितेः, परेस्तु वा / 2 / 3 / 81 // अदुरुपसर्गान्तःस्थाद् रादेः परस्याऽनिते! द्वित्वा-ऽद्वित्वयोरन्ता-ऽनन्तयोश्च 'ण' स्यात्, परिपूर्वस्य तु वा स्यात् / प्राणिणिषति, पराणिति, हे प्राण ! / पर्यणिणिषति, पर्यनिनिषति; पर्यणिति, पर्यनिति; हे पर्यण् !, हे पर्यन् ! // 8 // हनः / 2 / 3182 // अदुरुपसर्गान्तःस्थाद् रादेः परस्य हन्ते! 'ण' स्यात् / प्रहण्यते, अन्तहण्यते // 82 // व-मिवा / 2 / 3 / 83 // अदुरुपसर्गान्तःस्थाद् रादेः परस्य 'हन्तेर्नो व्-मोः परयोर्ण वा' स्यात् / प्रहण्वः, प्रहन्वः; प्रहण्मि, प्रहन्मि; अन्तर्हण्वः अन्तर्हन्वः; अन्तर्हमः, अन्तर्हन्मः / / 83 // निस-निक्ष-निन्दः कृति वा / 2 / 3 / 84 // अदुरुपसर्गान्तःस्थाद् रादेः परस्य निसादिधातो! ‘ण वा' स्यात्, कृत्प्रत्यये / प्रणिंसनम्, प्रनिसनम्, प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम् / कृतीति किम् ? प्रणिस्ते // 84 // स्वरात् / 2 / 3 / 85 // अदुरुपसर्गान्तःस्थाद् रादेः परस्य स्वरादुत्तरस्य कृतो 'नो ण् स्यात् / प्रहाणः, प्रहीणः // 85 //