________________ 89 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्यात्, चेद् युवन्-पक्वा-ऽहन्सम्बन्धी न स्यात् / व्रीहिवापिणी, व्रीहिवापिनौ; माषवापाणि, माषवापानि; व्रीहिवापेण, व्रीहिवापेन / युवादिवर्जनं किम् ? आर्ययूना, प्रपक्वानि, दीर्घाह्नी शरत् // 75 // कवर्गकस्वरवति / 2 / 376 // पूर्वपदस्थाद् रादेः परस्य कवर्गवत्येकस्वरवति चोत्तरपदे सति, उत्तरपदातस्य नागमस्य स्यादेश्च 'नो ण' स्यात्, न चेदसौ पक्वस्य / स्वर्गकामिणौ, वृषगामिणौ; ब्रह्महणौ, यूषपाणि / अपक्वस्येत्येव - क्षीरपक्वेन // 76 / / __अदुरुपसर्गान्तरो ण-हिनु-मीनाऽऽनेः / 2 / 377 // दुर्वोपसर्गस्थादन्तः शब्दस्थाच्च रादेः परस्यैषाम् 'नो ण्' स्यात् / णेति णोपदेशा धातवः- प्रणमति, परिणायकः, अन्तर्णयति / हिनु- प्रहिणुतः / मीना- प्रमीणीतः / आनि प्रयाणि / अदुरिति किम् ? दुर्नयः // 77 // नशः शः / 2 / 3 / 78 // अदुरुपसर्गान्तःस्थाद् रादेः परस्य नशः शन्तस्य ‘नो ण' स्यात् / प्रणश्यति, अन्तर्णश्यति / श इति किम् ? प्रनक्ष्यति // 7 // ने-मा-दा-पत-पद-नद-गद-वपी-वही-शमू-चिग-याति वाति-द्राति-प्साति-स्यति-हन्ति-देग्धौ / 2 / 379 // अदुरुपसर्गान्तःस्थाद् रादेः परस्योपसर्गस्य ने! माङादिषु परेषु 'ण' स्यात् / प्रणिमिमीते, परिणिमयते / प्रणिददाति, परिणिदयते, प्रणिदधाति / प्रणिपतति / परिणिपद्यते / प्रणिनदति / प्रणिगदति / प्रणिवपति / प्रणिवहति / प्रणिशाम्यति / प्रणिचिनोति / प्रणियाति / प्रणिवाति / प्रणिद्राति / प्रणिप्साति / प्रणिस्यति / प्रणिहन्ति / प्रणिदेग्धि / अन्तर्णिमिमीते // 79 // __ अक-खाद्यषान्ते पाठे वा / / 3 / 80 //