________________ 88 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् इरिकादिवर्जनं किम् ? इरिकावनम् // 67 // .... गिरिनयादीनाम् / 2 / 3 / 68 // एषाम् ‘नो ण् वा' स्यात् / गिरिणदी, गिरिनदी; तूर्यमाणः, तूर्यमानः // 68 // पानस्य भावकरणे / 2 / 3 / 69 // पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य 'नो ण् वा' स्यात् / क्षीरपाणं क्षीरपानं स्यात् / कषायपाणः कषायपानः कंसः // 69 // देशे 2370 // पूर्वपदस्थाद् रादेः परस्य देशविषयस्य पानस्य 'नो ण् नित्यम्' स्यात् / क्षीरपाणा उशीनराः / देश इति किम् ? क्षीरपाना गोदुहः // 70 // ग्रामाऽग्रात्रियः / 2 / 3 / 71 // आभ्यां परस्य नियो ‘नो ण्' स्यात् / ग्रामणीः, अग्रणीः // 71 // वाह्याद् वाहनस्य / 2 / 3 / 72 // वाह्यवाचिनो रादिमतः पूर्वपदात् परस्य वाहनस्य 'नो ण्' स्यात् / इक्षुवाहणम् / वाह्यादिति किम् ? सुरवाहनम् // 72 // ___ अतोऽहुनस्य / 2 / 3 / 73 // रादिमतोऽदन्तात् पूर्वपदात् परस्याऽह्नस्य 'नो ण्' स्यात् / पूर्वाह्नः / अत इति किम् ? दुरह्नः / अह्नस्येति किम् ? दीर्घाह्नी शरत् // 73 // चतुर्हायनस्य वयसि / 2 / 374 // आभ्यां पूर्वपदाभ्यां परस्य हायनस्य 'नो ण्' स्यात्, वयसि गम्ये / चतुर्हायणो वत्सः, त्रिहायणी वडवा / वयसीति किम् ? चतुर्हायना शाला // 74 // वोत्तरपदान्तन-स्यादेरयुव-पक्वा-ऽनः / 2 / 375 // पूर्वपदस्थाद् रादेः परस्य उत्तरपदान्तभूतस्य नाऽऽगमस्य स्यादेश्च ‘नो ण् वा'