________________ 87 . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् र-घृवर्णान्नो ण एकपदेऽनन्त्यस्या-ऽल-च-ट-तवर्ग-श-सान्तरे / / 3 / 63 // एभ्यः परस्यैभिः सहकस्मिन्नेव पदे स्थितस्याऽनन्त्यस्य 'नो णः' स्यात् / लच-ट-तवर्गान् श-सौ च मुक्त्वाऽन्यस्मिन्निमित्त-कार्यिणोरन्तरेऽपि / तीर्णम्, पुष्णाति, नृणाम्, नृणाम्, करणम्, बृंहणम्, अर्केण / एकपद इति किम् ? अग्निर्नयति, चर्मनासिकः / अनन्त्यस्येति किम् ? वृक्षान् / लादिवर्जनं किम् ? विरलेन, मूर्छनम्, दृढेन, तीर्थेन, रशना, रसना // 63 // पूर्वपदस्थानाम्न्यगः / 2 / 3 / 64 // गन्तवर्जपूर्वपदस्थाद् र-वर्णात् परस्योत्तरपदस्थस्य 'नो ण्' स्यात् संज्ञायाम् / गुणसः खरणाः, शूर्पणखा / नाम्नीति किम् ? मेषनासिकः / अग इति किम् ? ऋगयनम् // 64 / / नसस्य / 2 / 3 // 65 // पूर्वपदस्थाद् र-वर्णात् परस्य नसस्य 'नो ण्' स्यात् / प्रणसः // 65 // निष्पा-ऽग्रे-ऽन्तः-खदिर-काया-ऽऽम्र-शरेक्षु-प्लक्ष-पीयुक्षा _ भ्यो वनस्य / 2 / 3166 // निरादिभ्यः परस्य वनस्य 'नो ण्' स्यात् / निर्वणम्, प्रवणम्, अग्रेवणम्, अन्तर्वणम्, खदिरवणम्, कार्यवणम्, आम्रवणम्, शरवणम्, इक्षुवणम्, प्लक्षवणम्, पीयुक्षावणम् // 66 // . द्वि-त्रिस्वरौषधि-वृक्षेभ्यो नवाऽनिरिकादिभ्यः / 2 / 3 / 67 // द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेभ्य ओषधि-वृक्षवाचिभ्यः परस्य वनस्य 'नो ण वा' स्यात् / दूर्वावणम्, दूर्वावनम्; माषवणम्, माषवनम्; नीवारवणम्, नीवारवनम् / वृक्ष - शिग्रुवणम्, शिग्रुवनम्; शिरीषवणम्, शिरीषवनम् /