________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्यात् / पर्यष्टौत्, पर्यस्तीत्; न्यष्टोत्, न्यस्तीत्; व्यष्टौत्, व्यस्तीत् / पर्यष्वजत्, पर्यस्वजत्; न्यष्वजत्, न्यस्वजत्, व्यष्वजत्, व्यस्वजत् / पर्यषीव्यत्, पर्यसीव्यत्; न्यषीव्यत्, न्यसीव्यत्; व्यषीव्यत्, व्यसीव्यत् / पर्यषहत, पर्यसहत; न्यषहत, न्यसहत, व्यषहत, व्यसहत / पर्यष्करोत्, पर्यस्करोत् / असोङसिवूसहेत्येव - पर्यसोढयत्, पर्यसीषिवत्, पर्यसीषहत् // 49 // निरभ्यनोश्च स्यन्दस्याऽप्राणिनि / 2 / 3 // 50 // एभ्यः परि-नि-वेश्च परस्याऽप्राणिकर्तृकार्थवृत्तेः स्यन्दः सः ‘ष् वा' स्यात् / निःष्यन्दते, निःस्यन्दते; अभिष्यन्दते, अभिस्यन्दते; अनुष्यन्दते, अनुस्यन्दते; परिष्यन्दते, परिस्यन्दते; निष्यन्दते, निस्यन्दते; विष्यन्दते, विस्यन्दते तैलम् / अप्राणिनीति किम् ? परिस्यन्दते मत्स्यः // 50 // . वेः स्कन्दोऽक्तयोः / 2 / 3 / 51 // विपूर्वस्य स्कन्दः सः 'ष् वा' स्यात्, न चेत् क्त-क्तवतू स्याताम् / विष्कन्ता, विस्कन्ता / अक्तयोरिति किम् ? विस्कन्नः, विस्कनवान् // 51 // परेः.२॥३॥५२॥ परेः स्कन्दः सः ‘ष् वा' स्यात् / परिष्कन्ता, परिस्कन्ता, परिष्कण्णः, परिस्कन्नः // 52 // निर्नेः स्फुर-स्फुलोः / 2 / 3 / 53 // आभ्यां परयोः स्फुर-स्फुलोः सः 'ष् वा' स्यात् / निःष्फुरति, निःस्फुरति, निष्फुरति, निस्फुरति; निःष्फुलति, निःस्फुलति; निष्फुलति, निस्फुलति // 53 // वेः / 2 / 3 / 54 // वेः परयोः स्फुर-स्फुलोः सः 'ए वा' स्यात् / विष्फुरति, विस्फुरति; विष्फुलति, विस्फुलति // 54 //