________________ 84 श्रीसिद्भहेमचन्द्रशब्दानुशासनम् वेरवाच्चोपसर्गात् परस्य स्वनः सोऽशने- भोजने द्वित्वेऽप्यट्यपि 'ए' स्यात् / विष्वणति, अवष्वणति, विषष्वाण, अवषष्वाण, व्यष्वणत्, अवाष्वणत्, व्यषिष्वणत्, अवाषिष्वणत् / अशन इति किम् ? विस्वनति मृदङ्गः // 43 // सदोऽप्रतेः परोक्षायां त्वादेः / 2 / 3 / 44 // प्रतिव|पसर्गस्थानाम्यादेः परस्य सदः सो द्वित्वेऽप्यट्यपि 'ष' स्यात्, परोक्षायां तु व्युक्तौ सत्याम् आदेः- पूर्वस्यैव / निषीदति, विषाषद्यते, व्यषीषदत् / / परोक्षायां त्वादेरेव - निषसाद / अप्रतेरिति किम् ? प्रतिसीदति // 44 // स्वाश्च / 2 / 3 // 45 // उपसर्गस्थानाम्यादेः परस्य स्वनः सो द्वित्वेऽप्यट्यपि 'ए' स्यात्, परोक्षायां त्वादेरेव / अभिष्वजते, अभिषिष्वङ्क्षते, प्रत्यष्वजत, परिषस्वजे // 45 // परि-नि-वेः सेवः // 2 // 3 // 46 // पर्याधुपसर्गस्थानाम्यादेः परस्य सेवतेः सो द्वित्वेऽप्यट्यपि 'ए' स्यात् / परिषेवते, परिषिषेवे, परिषिषेविषते, पर्यषेवत, निषेवते, विषिषेवे // 46 // सय-सितस्य / 2 / 3 / 47 // . परि-नि-वेः परस्य सय-सितयोः सः 'ष' स्यात् / परिषयः, निषयः, विषयः; परिषितः, निषितः, विषितः // 47 // असोङ-सिवू-सह-स्सटाम् // 2 // 3 // 48 // परि-नि-विभ्यः परस्य सिवू-सहोः स्सटश्च सः '' स्यात्, न चेत् सिवूसही सो-ङविषयौ स्याताम् / परिषीव्यति, निषीव्यति, विषीव्यति / परिषहते, निषहते, विषहते / परिष्करोति, विष्किरः / असोङेति किम् ? परिसोढः, मा परिसीषिवत्, मा परिसीषहत् // 48 // स्तु-स्वजश्चाऽटि नवा / 2349 // परि-नि-वेः परस्य स्तु-स्वोरसोङ-सिवू-सह-स्सटां च सोऽटि सति ‘ष् वा'