________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 83 ण्यन्तस्य सञ्ज म्यादेः परस्य सः षणि 'ष् वा' स्यात् / सिषञ्जयिषति, सिसञ्जयिषति // 38 // उपसर्गात् सुग-सुव-सो-स्तु-स्तुभोऽट्यप्यद्वित्वे / 2 / 3 / 39 // द्व्युक्ताभावे सुनोत्यादेः स उपसर्गस्थानाम्यादेः परस्य 'ए' स्यात्, अड्व्यवधानेऽपि / सुग्-अभिषुणोति, निःषुणोति, पर्यषुणोत् / सुव-अभिषुवति, पर्यषुवत् / सो-अभिष्यति, पर्यष्यत् / स्तु- अभिष्टौति, दुःष्टवम्, पर्यष्टौत् / स्तुभ्- अभिष्टोभते, पर्यष्टोभत / अद्वित्व इति किम् ? अभिसुसूषति // 39 // स्था-सेनि-सेध-सिच-सनां द्वित्वेऽपि / 2 / 3 // 40 // उपसर्गस्थानाम्यादेः परेषां स्थादीनां सः “ष्' स्यात्, द्वित्वेऽप्यट्यपि / अधिष्ठास्यति, अधितष्ठी, अत्यष्ठात् / अभिषेणयति, अभिषिषेणयिषति, अभ्यषेणयत् / प्रतिषेधति, प्रतिषिषेधिषति, प्रत्यषेधत् / अभिषिञ्चति, अभिषिषिक्षति, अभ्यषिञ्चत् / अभिषजति, अभिषषा, अभ्यषजत् // 40 // . अङप्रतिस्तब्ध-निस्तब्धे स्तम्भः / 2 / 3 / 41 // उपसर्गस्थानाम्यादेः परस्य स्तम्भस्सो द्वित्वेऽप्यट्यपि 'ए' स्यात्, न चेत् स्तम्भि. प्रतिस्तब्ध-निस्तब्धयोश्च स्यात् / विष्टभ्नाति, वितष्टम्भ, प्रत्यष्टभ्नात् / अदिवर्जनं किम् ? व्यतस्तम्भत्, प्रतिस्तब्धः, निस्तब्धः // 41 // अवाचाऽऽश्रयोर्जाऽविदूरे 2 / 3142 // अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वेऽप्यट्यपि 'ए' स्यात्, इविषयश्चेत् स्तम्भिर्न स्यात् / आश्रय-आलम्बनम् / दुर्गमवष्टभ्नाति, अवतष्टम्भ, अवाष्टभ्नाद् वा / उर्ज- और्जित्यम् / अहो ! वृषलस्यावष्टम्भः / अविदूरम् - आसन्नम्, अदूरासनं च / अवष्टब्धा शरत्, अवष्टब्धे सेने / चोऽनुक्तसमुच्चये, तेन उपष्टम्भः, उपस्तब्धः / अङ इत्येव-अवातस्तम्भत् // 42 // व्यवात् स्वनोऽशने / 2 / 3 / 43 //