________________ 79 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् इसुस्प्रत्ययान्तस्य रस्य कखपफि 'ष् वा' स्यात्, स्थानि-निमित्तयोरपेक्षा चेत् / सर्पिष्करोति, सपि४ करोति / धनुष्खादति, धनु 4 खादति / अपेक्षायामिति किम् ? परमसर्पि- कुण्डम् // 11 // . नैकार्थेऽक्रिये / 2 / 3 / 12 // न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे- तुल्याधिकरणे पदे यत् कखपफ तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य 'ष् न' स्यात् / सर्पि- कालकम् / यजु पीतकम् / एकार्थ इति किम् ? सर्पिष्कुम्भे, सर्पि- कुम्भे / अक्रिय इति किम् ? सर्पिष्क्रियते, सर्पि- क्रियते // 12 // . समासेऽसमस्तस्य / 2 / 3.13 // पूर्वेणाऽसमस्तस्य इसुस्प्रत्ययान्तस्य रस्य कखपफि “ष्' स्यात्, निमित्तनिमित्तिनी चेदेकत्र समासे स्तः / सर्पिष्कुम्भः, धनुष्फलम् / समास इति किम् ? तिष्ठतु सर्पिः, पिब त्वमुदकम् / असमस्तस्येति किम् ? परमसर्पिःकुण्डम् // 13 // भ्रातुष्पुत्र-कस्कादयः // 2 // 3 // 14 // प्रातुष्षुत्रादयः कस्कादयश्च कखपफि रस्य यथासंख्यं कृतषत्वसत्वाः साधवः स्युः / प्रातुष्पुत्रः, परमयजुष्पात्रम्; कस्कः, कौतस्कुतः // 14 // नाम्यन्तस्था-कवर्गात पदान्तः कृतस्य सः शिड्-ना न्तरेऽपि // 2 // 3 // 15 // एभ्यः परस्य पदस्यान्तर्मध्ये कृतस्य कृतस्थस्य वा सस्य '' स्यात्, शिटा नकारेण चाऽन्तरेऽपि / आशिषा, नदीषु, वायुषु, वधूषु, पितृषु, एषा, गोषु, नौषु, सिषेवे; गीर्षु, हल्षु; शक्ष्यति, क्रुक्षु / शिड्नान्तरेऽपि- सर्पिष्षु, यजूंषि / पदान्तरिति किम् ? दधिसेक् / कृतस्येति किम् ? बिसम् // 15 // समासेऽग्नेः स्तुतः / 2 / 3 / 16 //