________________ 76 .. श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सवदिः सर्वाः / 2 / 2 / 1.19 // हेत्वथैर्युक्तात् सर्वादः ‘सर्वा विभक्तयः' स्युः / को हेतुः, कं हेतुम्, केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः, कस्य हेतोः, कस्मिन् हेतौ वा याति / / 119 // असत्त्वारादर्थात् टा-ङसि-यम् / 2 / 2 / 120 // असत्त्ववाचिनो दूरादिन्तिकार्थाच्च ‘टा-सि-यमः' स्युः / गौणादिति निवृत्तम् / दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद् वा वसति / एवं विप्रकृष्टेनेत्यादि / अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद् वा वसति, एवमभ्यासेनेत्यादि / असत्त्व इति किम् ? दूरोऽन्तिको वा पन्थाः // 120 // जात्याख्यायां नवैकोऽसंख्यो बहुवत् / 2 / 2 / 121 // जातेराख्या- अभिधा तस्यामेकोऽर्थोऽसंख्यः- संख्याविशेषणरहितो 'बहुवद् वा' स्यात् / संपन्ना यवाः, संपन्नो यवः / जातीति किम् ? चैत्रः / आख्यायामिति किम् ? काश्यपप्रतिकृतिः काश्यपः / असंख्य इति किम् ? एको व्रीहिः संपन्नः सुभिक्षं करोति // 121 // अविशेषणे द्वौ चाऽस्मदः / 2 / 2 / 122 // अस्मदो द्वावेकश्चार्थो ‘बहुवद् वा' स्यात् / अविशेषणे- न चेत् तस्य विशेषणं स्यात् / आवां ब्रूवः, वयं ब्रूमः / अहं ब्रवीमि, वयं ब्रूमः / अविशेषण इति किम् ? आवां गार्यो ब्रूवः / अहं चैत्रो ब्रवीमि // 122 // फल्गुनी-प्रोष्ठपदस्य भे / 2 / 2 / 123 // फल्गुनी-प्रोष्ठपदयोर्भे- नक्षत्रे वर्तमानयोवर्थो ‘बहुवद् वा' स्याताम् / कदा पूर्वे. फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः / कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः / भ इति किम् ? फल्गुनीषु जाते फल्गुन्यौ कन्ये // 123 // गुरावेकश्च / 2 / 2 / 124 //