________________ 74 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कुतश्चिदवधेर्विवक्षितस्याऽध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याध्वनोध्ववाचिनोऽध्वन एवाऽन्तेन- अन्तवाचिना सहकार्यम्- ‘सामानाधिकरण्यं वा' स्यात्,तद्विभक्तिस्तस्मात् स्यादित्यर्थः, गते गम्ये-गतशब्देऽप्रयुज्यमाने / गवीधुमतः सांकाश्यं चत्वारि योजनानि चतुर्पु वा योजनेषु / गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् / गम्य इति किम् ? गतप्रयोगे मा भूत् / अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे / अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम् / / 107 // षष्ठी.वाऽनादरे / 2 / 2 / 108 // यद्भावो भावलक्षणं तवृत्तेरनादरे 'षष्ठी का' स्यात् / रुदतो लोकस्य रुदति लोके वा प्राव्राजीत् // 108 // सप्तमी चाऽविभागे निर्धारणे / 2 / 2 / 109 // जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निद्धारणम्, तस्मिन् गम्ये 'षष्ठी-सप्तम्यौ' स्याताम्, अविभागे- निद्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्यमाने / क्षत्रियो नृणां नृषु वा शूरः, कृष्णा गवां गोषु वा बहुक्षीरा, धावन्तो यातां यात्सु वा शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा / अविभाग इति किम् ? मैत्रश्चैत्रात् पटुः // 109 // क्रियामध्येऽध्व-काले पञ्चमी च / / 2 / 110 // क्रिययोर्मध्ये यावध्व-कालौ तद्वाचिभ्यां ‘पञ्चमी- सप्तम्यौ' स्याताम् / इह . स्थोऽयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति, अद्य भुक्त्वा मुनियहात् व्यहे वा भोक्ता // 110 // अधिकेन भूयसस्ते / 2 / 2 / 111 // . अधिकेनाऽल्पीयोवाचिना योगे भूयोवाचिनस्ते- 'सप्तमी-पञ्चम्यो' स्याताम् / अधिको द्रोणः खार्यां खार्या वा // 111 //