________________ श्रीसिद्भहेमचन्द्रशब्दानुशासनम् 71 नोभयोर्हेतोः / 2 / 2 / 89 // उभयोः- कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव 'षष्ठी न' स्यात् / नेतव्या ग्राममजा मैत्रेण // 89 // तन्नुदन्ता-ऽव्यय-क्वस्वाना-ऽतृश-शत-डि-णकच खलर्थस्य / 2 / 2 / 90 // तृन्नादीनां कृतां कर्मकोंः 'षष्ठी न' स्यात् / तृन् -वदिता जनापवादान् / उदन्त-कन्यामलङ्करिष्णुः, श्रद्धालुस्तत्त्वम् / अव्यय-कटं कृत्वा, ओदनं भोक्तुं व्रजति / क्वसु-ओदनं पेचिवान् / आन- कटं चक्राणः, मलयं पवमानः, ओदनं पचमानः, चैत्रेण पच्यमानः / अतृश्- अधीयंस्तत्त्वार्थम् / शतृ- कटं कुर्वन् / ङि- परीषहान् सासहिः / णकच्- कटं कारको व्रजति / खलर्थईषत्करः कटो भवता, सुज्ञानं तत्त्वं त्वया // 90 // क्तयोरसदाधारे / 2 / 2 / 91 // सतो- वर्तमानादाधाराच्चान्यत्रार्थे यो क्त-क्तवतू तयोः कर्म-कोंः 'षष्ठी न' स्यात् / कटः कृतो मैत्रेण, ग्रामं गतवान् / असदाधार इति किम् ? राज्ञां पूजितः, इदं सक्तूनां पीतम् // 91 // वा कीबे / 2 / 2 / 92 // क्लीबे विहितस्य क्तस्य कर्तरि 'षष्ठी वा (न)' स्यात् / मयूरस्य मयूरेण वा नृत्तम् // 12 // अकमेरुकस्य / 2 / 2 / 93 // कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि 'षष्ठी न' स्यात् / भोगानभिलाषुकः / अकमेरिति किम् ? दास्याः कामुकः // 93 // __ एष्यदृणेनः / 2 / 2 / 94 //