________________ श्रीसिद्भहेमचन्द्रशब्दानुशासनम् ऋणाद्धेतोः / 2 / 2176 // हेतुभूतऋणवाचिनः ‘पञ्चमी' स्यात् / शताद् बद्धः / हेतोरिति किम् ? शतेन बद्धः // 76 / / गुणादस्त्रियां नवा / 2 / 277 // अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः ‘पञ्चमी वा' स्यात् / जाड्यात् जाड्येन वा बद्धः, ज्ञानात् ज्ञानेन वा मुक्तः / अस्त्रियामिति किम् ? बुद्ध्या मुक्तः // 77 // आरादथैः / 2 / 278 // आराद्-दूरमन्तिकं च, तदर्थैर्युक्तात् ‘पञ्चमी वा' स्यात् / / दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा / अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा // 78 // . स्तोका-ऽल्प-कृच्छ्र-कतिपयादसत्त्वे करणे / 2 / 2 / 79 // यतो द्रव्ये शब्दप्रवृत्तिः स गुणोऽसत्त्वं तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः ‘पञ्चमी वा' स्यात् / स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छ्रात् कृच्छ्रेण वा, कतिपयात् कतिपयेन वा मुक्तः / असत्त्व इति किम् ? स्तोकेन विषेण हतः // 79 // . अज्ञाने ज्ञः षष्ठी / 2 / 2 / 80 // अज्ञानार्थस्य ज्ञो यत्करणं तद्वाचिन एक-द्वि-बही यथासंख्यं ङसोसांलक्षणा 'षष्ठी नित्यं स्यात् / सर्पिषः सर्पिषोः सर्पिषां वा जानीते / अज्ञान इति किम् ? स्वरेण पुत्रं जानाति / करण इत्येव-तैलं सर्पिषो जानाति // 80 // शेषे / 2 / 2 / 81 // कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्व-स्वामिभावादिसम्बन्धविशेषः शेषस्तत्र 'षष्ठी' स्यात् / राज्ञः पुरुषः, उपगोरपत्यम्, न माषाणामश्नीयात् // 81 // रि-रिष्टात्-स्तादस्तादसतसाता / 2 / 2 / 82 //