________________ 68 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अवधिर्मर्यादा-ऽभिविधिश्च, तद्वृत्तेराङा युक्तात् ‘पञ्चमी' स्यात् / आ पाटलिपुत्राद् वृष्टो मेघः // 70 // पर्यपाभ्यां वर्थे / 2 / 271 // वर्ये वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्तात् “पञ्चमी' स्यात् / परि अप वा पाटलिपुत्राद् वृष्टो मेघः / वर्ण्य इति किम् ? अपशब्दो मैत्रस्य // 7 // यतः प्रतिनिधि-प्रतिदाने प्रतिना / 2 / 2 / 72 // प्रतिनिधिमुख्यसदृशोऽर्थः, प्रतिदानम्- गृहीतस्य विशोधनम्, ते यतः स्यातां तद्वाचिनः प्रतिना योगे ‘पञ्चमी' स्यात् / प्रद्युम्नो वासुदेवात् प्रति / तिलेभ्यः प्रति माषानस्मै प्रयच्छति // 72 // आख्यातर्युपयोगे / 2 / 2 / 73 // आख्याता-प्रतिपादयिता, तद्वाचिनः ‘पञ्चमी' स्यात्, उपयोगे - नियमपूर्वकविद्याग्रहणविषये / उपाध्यायादधीते आगमयति वा / उपयोग इति किम् ? नटस्य शृणोति // 73 // गम्ययपः कर्माऽऽधारे / 2 / 274 // गम्यस्याऽप्रयुज्यमानस्य यबन्तस्य कर्माऽऽधारवाचिनः ‘पञ्चमी' स्यात् / प्रासादादासनाद्वा प्रेक्षते / गम्यग्रहणं किम् ? प्रासादमारुह्य शेते, आसने उपविश्य भुङ्क्ते // 74 // प्रभृत्यन्याऽर्थ-दिक्शब्द-बहिरारादितरैः / 2 / 275 // प्रभृत्यर्थैरन्याथैर्दिक्शब्दैर्बहिरादिभिश्च युक्तात् 'पञ्चमी' स्यात् / ततः प्रभृति, ग्रीष्मादारभ्य; अन्यो भित्रो वा मैत्रात्; ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाद् युधिष्ठिरः; बहिर् आरात् इतरो वा ग्रामात् // 75 //