________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 67 करणाऽऽश्रयणं किम् ? न त्वा तृणाय मन्ये / युष्मदो मा भूत् / अतीति किम् ? त्वां तृणं मन्ये // 64 // हित-सुखाभ्याम् / 2 / 2 / 65 // आभ्यां युक्ताच्चतुर्थी वा स्यात् / आमयाविने आमयाविनो वा हितम् / चैत्राय चैत्रस्य वा सुखम् // 65 // तद्भद्रा-ऽऽयुष्य-क्षेमा-ऽर्थाऽर्थेनाऽऽशिषि / 2 / 2 / 66 // तदिति हित-सुखयोः परामर्शः, हिताद्यर्थैर्युक्तादाऽऽशिषि गम्यायाम् 'चतुर्थी वा' स्यात् / हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् / सुखं शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात् / भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा। आयुष्यमस्तु चैत्राय चैत्रस्य वा / क्षेमं भूयात् कुशलं निरामयं वा श्रीसंघाय श्रीसङ्घस्य वा / अर्थः कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा॥६६॥ परिक्रयणे / 2 / 2 / 67 // परिक्रीयते नियतकालं स्वीक्रियते येन तस्मिन् वर्तमानाच्चतुर्थी वा स्यात् / शताय शतेन. वा परिक्रीतः // 67 // शक्तार्थ-वषड्-नमः-स्वस्ति-स्वाहा-स्वधाभिः / 2 / 2 / 68 // शक्तार्थैर्वषडादिभिश्च युक्ताच्चतुर्थी नित्यं स्यात् / शक्तः प्रभुर्वा मल्लो मल्लाय / वषडग्नये / नमोऽर्हद्भ्यः / स्वस्ति प्रजाभ्यः / स्वाहेन्द्राय / स्वधा पितृभ्यः // 68 // ___ पञ्चम्यपादाने / 2 / 2 / 69 // अपादाने एक-द्वि-बही यथासंख्यं ङसि-भ्याम्-भ्यस्लक्षणा ‘पञ्चमी' स्यात् / ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति // 69 // आङाऽवधौ / 2 / 2 / 70 //