________________ 66 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् उत्पातेनेति किम् ? राज्ञ इदं छत्रमायान्तं विद्धि राजानम् // 59 // श्लाघ-हनु-स्था-शपा प्रयोज्ये / 2 / 2 / 60 // श्लाघादिभिर्धातुभिर्युक्ताद् 'ज्ञाप्ये प्रयोज्ये वर्तमानाच्चतुर्थी' स्यात् / मैत्राय श्लाघते, हनुते, तिष्ठते, शपते वा / प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते, आत्मनो मा भूत् // 60 // तुमोऽर्थे भाववचनात् / 2 / 2 / 61 // . क्रियायां क्रियार्थायामुपपदे .तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घजादयस्तदन्तात् स्वार्थे 'चतुर्थी' स्यात् / पाकाय इज्यायै वा व्रजति तुमोऽर्थ इति किम् ? पाकस्य / भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या // 61 // गम्यस्याऽऽप्ये / 2 / 2 / 62 // यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्यः, 'गम्यस्य तुमो व्याप्ये वर्तमानाचतुर्थी, स्यात् / एधेभ्यः फलेभ्यो वा व्रजति / गम्यस्येति किम् ? एधानाहर्तु याति // 62 // गते वाऽनाप्ते / 2 / 2163 // गतिः- पादविहरणम्, तस्या आप्येऽनाप्ते वर्तमानाच्चतुर्थी वा स्यात् / ग्राम ग्रामाय वा याति, विप्रनष्टः पन्थानं पथे वा याति / गतेरिति किम् ? स्त्रियं गच्छति, मनसा मेरुं गच्छति / अनाप्त इति किम् ? संप्राप्ते मा भूत-पन्थानं याति // 63 // मन्यस्याऽनावादिभ्योऽतिकुत्सने / 2 / 2 / 64 // अतीव कुत्स्यते येन तदतिकुत्सनम्, तस्मिन् मन्यतेाप्ये वर्तमानानावादिवर्जाच्चतुर्थी वा स्यात् / न त्वा तृणाय तृणं वा मन्ये / मन्यस्येति किम् ? न त्वा तृणं मन्वे / अनावादिभ्य इति किम् ? न त्वा नावं, अन्नं शुकं शृगालं काकं वा मन्ये / कुत्सन इति किम् ? न त्वा रलं मन्ये /