________________ * 62 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् लक्षणं चिह्नम्, वीप्साकर्म वीप्स्यम्, इत्थम्भूतः किञ्चित्प्रकारमापन्नः, एषु वर्तमानादभिना युक्ताद् 'द्वितीया' स्यात् / वृक्षमभि विद्युत्, वृक्षं वृक्षमभिसेकः, साधुमैत्रो मातरमभि / लक्षणादिष्विति किम् ? यदत्र ममाभि स्यात् तद् दीयताम् // 36 // . भागिनि च प्रति-पर्यनुभिः / 2 / 2 // 37 // स्वीकार्योंशो भागस्तत्स्वामी भागी, तत्र लक्षणादिषु च वर्तमानात् प्रत्यादिभिर्युक्ताद् द्वितीया' स्यात् / यदत्र मां प्रति मां परि मामनु स्यात् तद् दीयताम् / वृक्षं प्रति परि अनु वा विद्युत् / वृक्षं वृक्षं प्रति परि अनु वा सेकः / साधुमैत्रो मातरं प्रति परि अनु वा / एतेष्विति किम् ? अनु वनस्या-ऽशनिर्गता // 37 // हेतु-सहार्थेऽनुना / 2 / 2 // 38 // हेतुर्जनकः, सहार्थस्तुल्ययोगो विद्यमानता, च, तद्विषयोऽप्युपचारात्, तयोवर्तमानादनुना युक्ताद् ‘द्वितीया' स्यात् / जिनजन्मोत्सवमन्वागच्छन् सुराः गिरिमन्ववसिता सेना // 38 // . उत्कृष्टेऽनूपेन / 2 / 2 // 39 // उत्कृष्टार्थादनूपाभ्यां युक्ताद् 'द्वितीया' स्यात् / अनु सिद्धसेनं कवयः / उपोमास्वातिं संग्रहीतारः // 39 // कर्मणि / 2 / 2 / 40 // नाम्नः कर्मणि 'द्वितीया' स्यात् / कटं करोति, तण्डुलान् पचति, रविं पश्यति, अजां नयति ग्रामम्, गां दोग्धि पयः // 40 // क्रियाविशेषणात् / 2 / 2 / 41 // क्रियाया यद्विशेषणं तद्वाचिनो 'द्वितीया' स्यात् / स्तोकं पचति / सुखं स्थाता //