________________ 58 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् . स्मृत्यर्थ दयेशः / 2 / 2 / 11 // स्मृत्यर्थानां दयेशोश्च व्याप्यम् ‘कर्म वा' स्यात् / मातुः स्मरति, मातरं स्मरति; मातुः स्मर्यते, माता स्मर्यते; सर्पिषः सर्पिर्वा दयते; लोकानामीष्टे, लोकानीष्टे // 11 // कृगः प्रतियत्ने / 2 / 2 / 12 // पुनर्यनः प्रतियलस्तवृत्तेः कृगो व्याप्यम् ‘कर्म वा' स्यात् / एधोदकस्यैधोदकं वोपस्कुरुते // 12 // . . रुजाऽर्थस्याऽज्वरि-सन्तापेभवि कर्तरि / 2 / 2 / 13 // रुजा पीडा, तदर्थस्य ज्वरि-सन्तापिवर्जस्य धातोर्व्याप्यम् ‘कर्म वा' स्यात्, भावश्चेद्रुजायाः कर्ता / चोरस्य चौरं वा रुजति रोगः / अज्वरिसन्तापेरिति किम् ? आयूनं ज्वरयति सन्तापयति वा / भाव इति किम् ? मैत्रं रुजति श्लेष्मा // 13 // जास-नाट-क्राथ-पिषो हिंसायाम् / 2 / 2 / 14 // हिंसार्थानामेषां व्याप्यम् ‘कर्म वा' स्यात् / चौरस्य चौरं वोज्जासयति, चौरस्य चौरं वोन्नाटयति, चौरस्य चौरं वोक्राथयति, चौरस्य चौरं वा पिनष्टि / हिंसायामिति किम् ? चौरं बन्धनाज्जासयति // 14 // नि-प्रेभ्यो नः / 2 / 2 / 15 // . समस्त-व्यस्त-विपर्यस्ताभ्यां नि-प्राभ्यां परस्य हिंसार्थस्य हन्तेाप्यम् 'कर्म वा' स्यात् / चौरस्य चौरं वा निप्रहन्ति / हिंसायामित्येव- रागादीनिहन्ति // विनिमेय-द्यूतपणं पण-व्यवहोः / 2 / 2 / 16 // विनिमेयः क्रय-विक्रेयोऽर्थः, द्यूतपणो द्यूतजेयम्, तौ पणव्यवहो ाप्यौ 'वा कर्म' स्याताम् / शतस्य शतं वा पणायति, दशानां दश वा व्यवहरति / विनिमेय-धूतपणमिति किम् ? साधून् पणायति / / 16 //