________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् उपसर्गादिवः / 2 / 2 / 17 // उपसर्गात् परस्य द्रिवो व्याप्यौ विनिमेय- द्यूतपणौ ‘वा कर्म' स्याताम् / शतस्य शतं वा प्रदीव्यति / उपसर्गादिति किम् ? शतस्य दीव्यति / / 17 / / न / 2 / 2 / 18 // अनुपसर्गस्य दिवो व्याप्यौ विनिमेय-द्यूतपणौ 'कर्म न' स्याताम् / शतस्य दीव्यति / / 18 // करणं च / 2 / 2 / 19 // दिवः करणम् ‘कर्म करणं च युगपत्' स्यात् / अक्षान् दीव्यति, अक्षैर्दीव्यति, अक्षैर्देवयते मैत्रश्चैत्रेण / / 19 / अधेः शीङ्-स्था-ऽऽस आधारः / 2 / 2 / 20 // अधेः संबद्धानां शीङ्-स्था-ऽऽसामाधारः 'कर्म' स्यात् / ग्राममधिशेते, अधितिष्ठति, अध्यास्ते वा // 20 // उपान्वध्यावसः / 2 / 2 / 21 // उपादिविशिष्टस्य वसतेराधारः 'कर्म' स्यात् / ग्राममुपवसति, अनुवसति, अधिवसति, आवसति वा // 21 // वाऽभिनिविशः 12 // 2 // 22 // अभि-निभ्यामुपसृष्टस्य विशेराधारः 'कर्म वा' स्यात् / ग्राममभिनिविशते, कल्याणे अभिनिविशते // 22 // कालाव-भाव-देशं वाऽकर्म चाऽकर्मणाम् / 2 / 2 / 23 // कालादिराधारोऽकर्मणां धातूनां योगे'कर्माऽकर्म च युगपद् वा' स्यात् / मासमास्ते, क्रोशं शेते, गोदोहमास्ते, कुरूनास्ते / पक्षे-मासे, आस्ते इत्यादि / अकर्म चेति किम् ? मासमास्यते / अकर्मणामिति किम् ?