________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 53 - राजन्वान् सुराज्ञि / 2 / 1 / 98 // सुराजकेऽर्थे 'राजन्वान्' मतौ निपात्यते / राजन्वान् देशः, राजन्वत्यः प्रजाः // 98 // नोादिभ्यः / 2 / 1 / 99 // ऊर्यादिभ्यो ‘मतोर्मो वो' न स्यात् / ऊर्मिमान्, दल्मिमान् इत्यादि // 99 // मास-निशाऽऽसनस्य शसादौ लुग्वा / 2 / 1 / 100 // शसादौ स्यादावेषाम् ‘लुग्वा' स्यात् / मासः, मासान् / निशः निशाः / / आसनि, आसने, आस्नि // 100 / दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्यकञ्छकन् वा / 2 / 1 / 101 // शसादी स्यादौ दन्तादीनां यथासंख्यम् ‘दत्-इत्यादयो वा' स्युः / दतः, दन्तान् / पदः, पादान् / नसा, नासिकया / हृदि, हृदये / अस्ना, असृजा / यूष्णा, यूषेण / उद्ना, उदकेन / दोष्णा, दोषा / यक्ना, यकृता / शक्ना, शकृता / / 101 / / य-स्वरे पादः पदणि-क्य-घुटि / 2 / 1 / 102 // णि-क्य-घुट्वर्जे यादौ स्वरादौ च प्रत्यये ‘पाक्न्तस्य पद्' स्यात् / वैयाघ्रपद्यः, द्विपदः पश्य / पादयतेः क्विपि पाद्- पदी कुले / य स्वर इति किम् ? द्विपाद्भ्याम् / अणिक्यघुटीति किम् ? पादयति / व्याघ्रपाद्यति, द्विपादौ // 102 // ___ उदच उदीच् / 2 / 1 / 103 // अणिक्यघुटि यस्वरे ‘उदच उदीच्' स्यात् / उदीच्यः, उदीची / अणिक्यघुटित्येव- उदयति, उदच्यति, उदञ्चः / उदच इति किम् ? नि मा भूत्उदश्चा, उदञ्चे // 103 //