________________ 50 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् धत्तः, धत्थः, धत्से, धद्ध्वे / तथोश्चेति किम् ? दध्वः / चतुर्थान्तस्येत्येवदधाति // 7 // अधश्चतुर्थात् तथोधः / 2 / 179 // चतुर्थात्परयोर्धारूपवर्जाद्धातोर्विहितयो- 'स्तथोर्धः' स्यात् / अदुग्ध, अदुग्धाः / अलब्ध, अलब्धाः / अध इति किम् ? धत्तः, धत्थः / विहितविशेषणं किम् ? ज्ञानभुत्त्वम् // 79 // नाम्यन्तात् परोक्षायतन्याशिषो धो ढः / 2 / 1 / 80 // रान्तानाम्यन्ताच्च धातोः परासां परोक्षाद्यतन्याशिषाम् 'धो ढः' स्यात् / तुष्टुवे अतीवम्, तीर्षीदवम्, अदिवम् चेषीदवम् / म्यिन्तादिति किम् ? अपग्ध्वम्, आसिध्वम् // 8 // हान्तस्थाञीड्भ्यां वा / 2 / 1181 // हादन्तस्थायाश्च पराओरिटश्च परासां परोक्षाद्यतन्याशिषाम् 'धो द् वा' स्यात् / अग्राहिवम्; अग्राहिध्वम्; ग्राहिषीढ्वम्, ग्राहिषीध्वम् / अनायित्वम्, अनायिध्वम् / नायिषीदवम्, नायिषीध्वम् / अकारिद्वम्, अकारिध्वम् / अलाविवम्, अलाविध्वम् / जगृहिवे, जगृहिध्वे / आयिढ्वम्, आयिध्वम् / हान्तस्थादिति किम् ? घानिषीध्वम्, आसिषीध्वम् // 81 // हो धुट्-पदान्ते / 2 / 1182 // धुटि प्रत्यये पदान्ते च ‘हो ' स्यात् / लेढा, मधुलिट्, गुडलिण्मान् / धुट्पदान्त इति किम् ? मधुलिहौ / / 82 // भ्वादेददिर्घः / 2 / 1 / 83 // भ्वादेर्धातोर्यो दादिरवयवस्तस्य हो धुटि प्रत्यये परे पदान्ते च 'घः' स्यात् / दोग्धा, धोक्ष्यति, अधोक्, गोधुक् / भ्वादेरिति किंम् ? दामलिट् // 83 // मुह-द्रुह-स्नुह-स्निहो वा / 2 / 1184 //