________________ 49 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् नशः पदान्ते 'ग् वा' स्यात् / जीवनग्, जीवनड् // 70 // . युजञ्च-क्रुञ्चो नो ङः / 2 / 171 // एषां नस्य पदान्ते 'ङ्' स्यात् / युङ्, प्राङ्, क्रुङ् // 71 // सो रुः / 2 / 1172 // पदान्ते ‘सो रुः' स्यात् / आशीः, वायुः // 72 / / . सजुषः / 2 / 1173 // पदान्ते ‘सजुषो रुः' स्यात् / सजूः, सर्वत् // 73 // अह्नः / 2 / 174 // . अनः पदान्ते ‘रुः' स्यात् / हे दीर्घाहो निदाघ ! दीर्घाहा निदाघः // 74 // रो लुप्यरि।२।१७५॥ अरेफे परे पदान्ते अह्नो लुपि सत्याम् ‘रः' स्यात् / अहरधीते, अहर्दत्ते / लुपीति किम् ? हे दीर्घाहोऽत्र / अरीति किम् ? अहोरूपम् // 75 / / धुटस्तृतीयः / 2 / 176 // पदान्ते धुटां तृतीयः स्यात् / वाग्, वाग्भिः, अग्भिः // 76 // ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः - स्वोश्च प्रत्यये / 2 / 177 // ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्य 'धातुरूपशब्दावयवस्यादेश्चतुर्थः स्यात्, पदान्ते सादी ध्वादौ च प्रत्यये / पर्णघुट, तुण्डिभमाचक्षाणः- तुण्ढिप् / एवं गर्द्धप्, धर्मभुत्, निघोक्ष्यते, न्यघूवम्, धोक्ष्यते, अधुग्ध्वम्, भोत्स्यते- अभुद्ध्वम् / गडदबादेरिति किम् ? अजअप् / एकस्वरस्येति किम् ? दामलिट् // 77 // धागस्त-थोश्च / 2 / 1178 // धागचतुर्थान्तस्य दादेरादेर्दस्य तथोः सध्योश्च प्रत्यययोः परयोश्चतुर्थः स्यात् /