________________ 43 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् किञ्चिद्विधातुं कथितस्य पुनस्न्यद्विधातुं कथनमन्वादेशः, तस्मिन् विषये पदात् परयोर्युष्मदस्मदोस्-नसादिनित्यं स्यात् / यूयं विनीतास्तद्वो गुरवो मानयन्ति, वयं विनीतास्तन्नो गुरवो मानयन्ति; धनवांस्त्वमथो त्वा लोको मानयति, धनवानहमयो मा लोको मानयति // 31 // . सपूर्वात् प्रथमान्ताद् वा / 2 / 1 // 32 // विधमानपूर्वपदात् प्रथमान्तात् पदात् परयोर्युष्मदस्मदोरन्वादेशे 'वस्-नसादिर्वा' स्यात् / यूयं विनीतास्तद् गुरवो वो मानयन्ति, तद् गुरवो युष्मान् मानयन्ति / वयं विनीतास्तद् गुरवो नो मानयन्ति, तद् गुरवोऽस्मान् मानयन्ति / युवां सुशीलौ तज्ज्ञानं वां दीयते, तज्ज्ञानं युवाभ्यां दीयते / आवां सुशीली तज्ज्ञानं नौ दीयते, तज्ज्ञानमावाभ्यां दीयते // 32 // त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते / 2 / 1 // 33 // त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे ‘एनद्' स्यात्, न तु वृत्त्यन्ते / उद्दिष्टमेतदध्ययनमथो एनदनुजानीत, एतकं साधुमावश्यकमध्यापय अयो एनमेव सूत्राणि / अत्र साकः / एतेन रात्रिरधीता अथो एनेनाहरप्यधीतम् / एतयोः शोभनं शीलमथो एनयोर्महती कीर्तिः / त्यदामिति किम् ? संज्ञायामेतदं संगृहाण अथो एतदमध्यापय / अवृत्त्यन्त इति किम् ? अयो परमैतं पश्य // 33 // इदमः / 2 / 1134 // त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे ‘एनत्' स्यात्, अवृत्त्यन्ते / उद्दिएमिदमध्ययनमयो एनदनुजानीत / अनेन रात्रिरधीता अथो एनेनाहरप्यधीतम् / अनयोः शोभनं शीलम् अथो एनयोर्महती कीर्तिः // 34 // अद् व्यञ्जने / 2 / 1 // 35 // त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे 'अः' स्यात्, अवृत्त्यन्ते / इम