________________ श्रीसिद्भहेमचन्द्रशब्दानुशासनम् 41 पदात् परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह, यथासंख्यम् ‘वाम्-नौ' इत्येतौ वा स्याताम्, एकवाक्ये / धर्मो वां पातु, धर्मो युवां पातु; धर्मो नौ पातु, धर्म आवां पातु / एवं चतुर्थी-षष्ठीभ्यामपि // 22 // 3-ङसा ते-मे / 2 / 1 / 23 // डेङस्भ्यां सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यम् 'ते-मे' इत्येतौ वा स्याताम्, एकवाक्ये / धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते; धर्मो मे दीयते, धर्मो मह्यं दीयते; धर्मस्ते स्वम्, धर्मस्तव स्वम्; धर्मो मे स्वम्, धर्मो मम स्वम् // 23 // अमा त्वा-मा / 2 / 1 // 24 // अमा सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यम् ‘त्वा-मा' इत्येतौ वा स्याताम्, एकवाक्ये / धर्मस्त्वा पातु, धर्मस्त्वां पातु: धर्मो मा पातु, धर्मो मां पातु // 24 // __असदिवाऽऽमन्त्र्यं पूर्वम् / 2 / 1125 // आमन्त्र्यार्थं पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् / जना ! युष्मान् पातु धर्मः, साधू ! युवां पातु धर्मः; साधो ! त्वां पातु तपः / पूर्वमिति किम् ? मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः // 25 // जस्विशेष्यं वाऽऽमन्त्र्ये / 2 / 1 // 26 // युष्मदस्मद्भ्यां पूर्वं जसन्तमामन्त्र्यार्थं विशेष्यवाच्याऽऽमन्त्र्ये पदेऽर्थात् तद्विशेषणे परे ऽसदिव वा' स्यात् / जिनाः ! शरण्या युष्मान् शरणं प्रपद्ये, जिनाः ! शरण्या वः शरणं प्रपद्ये / जिनाः ! शरण्या अस्मान् रक्षत, जिनाः ! शरण्या नो रक्षत / जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये, साधो ! सुविहित ! नोऽथो रक्ष / विशेष्यमिति किम् ? शरण्याः साधवो ! युष्मान् शरणं प्रपद्ये / आमन्त्र्य इति किम् ? आचार्या ! युष्मान् शरण्याः शरणं प्रपद्ये / अर्थात् तद्विशेषणभूत इति किम् ? आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये // 26 //