________________ -- 40 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् युष्मदस्मद्भ्यां परयोरम् औ इत्येतयोर्म इति स्यात् / त्वाम्, माम्; अतित्वाम्, अतिमाम्; युवाम्, आवाम्; अतियुवाम्, अत्यावाम् // 16 // . ' शसो नः / 219117 // युष्मदस्मद्भ्यां परस्य 'शसो न' इति स्यात् / युष्मान्, अस्मान् प्रियत्वान्, प्रियमान् // 17 // अभ्यम् भ्यसः / 2 / 1 / 18 // युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यतोऽभ्यं स्यात् / युष्मभ्यम्, अस्मभ्यम्; अतियुवभ्यम्, अत्यावभ्यम् // 18 // उसेश्चाऽद् / 2 / 1 / 19 // युष्मदस्मद्भ्यां परस्य ङसेः पञ्चमीभ्यसश्च ‘अद्' इति स्यात् / त्वद्, मद्; अतियुवद्, अत्यावद्; युष्मद्, अस्मद्; अतित्वद्; अतिमद् // 19 // आम आकम् / 2 / 1 // 20 // युष्मदस्मद्भ्यां परस्य ‘आम आकम्' स्यात् / युष्माकम्, अस्माकम्, अतियुवाकम्, अत्यावाकम्; युष्मानस्मान् वाऽऽचक्षाणानाम् युष्माकम् , अस्माकम् युषाकम्, असाकम् // 20 // पदाद् युगविभक्त्यैकवाक्ये वसू-नसौ बहुत्वे / 2 / 1 / 21 // बहुत्वविषयया समविभक्त्या सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यम् 'वस्नसौ वा' स्याताम्, तच्चेत्पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्तः / अन्वादेशे नित्यं विधानादिह विकल्पः / एवमुत्तरसूत्रत्रयेऽपि / धर्मो वो रक्षतु, धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु, धर्मोऽस्मान् रक्षतु / एवं चतुर्थी- षष्ठीभ्यामपि / पदादिति किम् ? युष्मान् पातु / युग्विभक्त्येति किम् ? तीर्थे यूयं यात / एकवाक्य इति किम् ? अतियुष्मान् पश्य, ओदनं पचत, युष्माकं भविष्यति // 21 // द्वित्वे वाम-नौ / 2 / 1 / 22 // .