________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 39 त्यावासु / मन्तस्येति किम् ?. युवयोः आवयोरित्यत्र दस्य यत्वं यथा स्यात् / स्यादावित्येव- युवयोः पुत्रो युष्मत्पुत्रः // 10 // त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् / 2 / 1 / 11 // स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासंख्यम् ‘त्व-म' इत्येतौ स्याताम् / त्वाम्, माम्; अतित्वाम्, अतिमाम्; अतिवासु, अतिमासुः त्वदीयः, मदीयः, त्वत्पुत्रः, मत्पुत्रः / प्रत्ययोत्तरपदे चेति किम् ? अधियुष्मद्, अध्यस्मद् / एकस्मिन्निति किम् ? युष्माकम्, अस्माकम् // 11 // . त्वमहं सिना प्राक् चाऽकः / 2 / 112 // सिना सह युष्मदस्मदोर्यथासंख्यम् ‘त्वम्-अहमौ' स्याताम्, तौ चा-ऽक्प्रसङ्गेऽकः प्रागेव / त्वम्, अहम्; अतित्वम्, अत्यहम् / प्राक्चाक इति किम् ? त्वकम्, अहकम् // 12 // यूयं वयं जसा / 2 / 113 // जसा सह युष्मदस्मदोर्यथासंख्यम् ‘यूयम्-वयमौ' स्याताम् / यूयम्, वयम्; प्रिययूयम्, प्रियवयम् / प्राक्वाक इत्येव- यूयकम्, वयकम् // 13 // . तुभ्यं मह्यं ड्या / 2 / 114 // झ्या सह युष्मदस्मदोर्यथासंख्यम् 'तुभ्यम्-मह्यमौ' स्याताम् / तुभ्यम्, मह्यम्; प्रियतुभ्यम्, प्रियमह्यम् / प्राक्वाक इत्येव- तुभ्यकम्, मह्यकम् // 14 // तव मम ङसा / 2 / 1115 // असा सह युष्मदस्मदोर्यथासंख्यम् 'तव-ममौ' स्याताम् / तव, मम; प्रियतव, प्रियमम / प्राक्चाक इत्येव- तवक, ममक // 15 // अमौ मः / 2 / 1 / 16 //