________________ 37 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कुशः परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात्, निर्निमित्त एव / क्रोष्ट्री, क्रोष्ट्रयौ, क्रोष्ट्रीभ्याम् / पञ्चक्रोष्टभी रथैः // 93 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन ___ लघुवृत्तौ प्रथमस्याध्यायस्य चतुर्थः पादः समाप्तः // 1 / 4 / / सोत्कण्ठमङ्गलगतैः कचकर्षणैश्च, वक्त्राब्जचुम्बननखक्षतकर्मभिश्च / श्रीमूलराजहतभूपतिभिर्विलेसुः, संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च / / 4 / / xox अथ द्वितीयोऽध्यायः / (प्रथमः पादः) त्रि-चतुरस्तिसृ-चतसृ स्यादौ / 2 / 1 / 1 // स्त्रियामिति वर्त्तते / स्यादौ परे स्त्रीवृत्त्योस्त्रिचतुरोर्यथासंख्यम् ‘तिसृ-चतसृ' इत्येतौ स्याताम् / तिनः, चतनः; तिसृषु, चतसृषु / प्रियतिसा, प्रियचतसा ना / प्रियतिसृ कुलम्, प्रियत्रि कुलम् / स्यादाविति किम् ? प्रियत्रिकः, प्रियचतुष्कः // 1 // - ऋतो रः स्वरेऽनि / 2 / 12 // तिस-चतसृस्थस्य ऋतः स्वरादौ परे ‘रः' स्यात्, अनि- नविषयादन्यत्र / तिम्रः चतनः; प्रिंयतिम्रौ,प्रियचतम्रौ / स्वर इति किम् ? तिसृभिः, चतसृभिः / अनीति किम् ? तिसृणाम्, चतसृणाम् // 2 // जराया जरस वा / 2 / 1 // 3 // स्वरादौ स्यादौ परे जराया 'जरस् वा स्यात् / जरसौ जरसः / जरे, जराः / अतिजरसौ, अतिजरौ / अतिजरसम्, अतिजरम् कुलम् // 3 //