________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भवतु, किम् इत्यसंज्ञायां सर्वादिः // 7 // डेः स्मिन् / 1148 // सवदिरदन्तस्य '.: स्मिन्' स्यात् / सर्वस्मिन् // 8 // जस इ. 1 / 4 / 9 // सवदिरदन्तस्य ‘जस इ.' स्यात् / सर्वे // 9 // नेमा-ऽर्द्ध-प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयस्य वा 114 // 10 // नेमादीनि नामानि, तयायौ प्रत्ययौ, तेषामदन्तानाम् ‘जस इर्वा' स्यात् / नेमे, नेमाः / अः, अर्धाः / प्रथमे, प्रथमाः / चरमे, चरमाः / द्वितये, द्वितयाः / त्रये, त्रयाः / अल्पे, अल्पाः / कतिपये, कतिपयाः // 10 // द्वन्द्वे वा / 1 / 4 / 11 // द्वन्द्वसमासस्थस्याऽदन्तस्य सवदि जस इर्वा' स्यात् / पूर्वोत्तरे, पूर्वोत्तराः // 11 // न सर्वादिः / 1 / 4 / 12 // द्वन्द्वे सर्वादिः ‘सर्वादिर्न' स्यात् / पूर्वापराय, पूर्वापरात्, पूर्वापरे / कतरकतमानाम्, कतरकतमकाः // 12 // तृतीयान्तात् पूर्वा-ऽवरं योगे / 1 / 4 / 13 // तृतीयान्तात् परौ पूर्वाऽवरौ योगे-सम्बन्धे सति सर्वादी न' स्याताम् / मासेन पूर्वाय मासपूर्वाय / दिनेनाऽवराय दिनावराय / दिनेनाऽवराः दिनाऽवराः / तृतीयान्तादिति किम् ? पूर्वस्मै मासेन // 13 // तीयं ङित्कार्ये वा / 1 / 4 / 14 // तीयान्तं नाम डे-सि-स्-डीनां कार्ये 'सर्वादिर्वा' स्यात् / द्वितीयस्मै, द्वितीयाय / द्वितीयस्यै, द्वितीयायै / ङित्कार्य इति किम् ? द्वितीयकाय // 14 //