________________ 23 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तति, वृश्चति / षेण - दोष्षु / टवर्गेण-पापलि // 61 // न शात् / 13 / 62 // शात् परस्य तवर्गस्य 'चवर्गो न' स्यात् / अनाति, प्रश्नः // 62 / / पदान्ताट्टवर्गादनाम्-नगरी-नवतेः / 1 / 3 / 63 // पदान्तस्थाट्टवर्गात् परस्य नाम्-नगरी-नवतिवर्जस्य तवर्गस्य सस्य च 'टवर्गषौ न' स्याताम् / षण्नयम्, षण्नयाः, षट्सु / अनाम्-नगरी-नवतेरिति किम् ? षण्णाम्, षण्णगरी, षण्णवतिः // 63 // षि तवर्गस्य / 13 / 64 // पदान्तस्थस्य तवर्गस्य षे परे ‘टवर्गो न' स्यात् / तीर्थकृत् षोडशः शान्तिः // 64 // लि लौ / 113 // 65 // . पदान्तस्थस्य तवर्गस्य ले परे 'लौ' स्याताम् / तल्लूनम्, भवाल्लुनाति // 65 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ प्रथमस्याध्यायस्य तृतीयपादः समाप्तः // 13 // चक्रे श्रीमूलराजेन, नवः कोऽपि यशोऽर्णवः / . परकीर्तिस्रवन्तीनां, न प्रवेशमदत्त यः // 3 // ----------xox--------