________________ 260 . . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यः परस्य 'क्वसोरादिरिट् वा' स्यात् / जग्मिवान्, जगन्वान्; जनिवान्, जघन्वान्; विविदिवान्, विविद्वान्; विविशिवान्, विविश्वान्; ददृशिवान्, ददृश्वान् // 83 // सिचोऽः / 4 / 4 / 84 // 'अजेः सिच आदिरिट्' स्यात् / आञ्जीत् // 84 // धूग-सुस्तोः परस्मै / 4 / 4 / 85 // ‘एभ्यः परस्मैपदे सिच आदिरिट्' स्यात् / अधावीत्, असावीत्, अस्तावीत् / परस्मै इति किम् ? अधोष्ट // 85 / / यमि-रमि-नम्यातः सोऽन्तश्च / 4 / 4 / 86 // एभ्य आदन्तेभ्यश्च ‘परस्मैपदे सिच आदिरिट्' स्यात्, एषां च सन्तः / अयंसीत्, व्यरंसीत्, अनंसीत्, अयासिष्टाम् // 86 // ईशीडः से-ध्वे-स्व-ध्वमोः / 4 / 487 // आभ्याम् 'वर्तमानासेध्वयोः, पञ्चमीस्वध्वमोश्चादिरिट्' स्यात् / ईशिषे, ईशिध्वे, ईशिष्व, ईशिध्वम्; ईडिषे, ईडिध्वे, ईडिष्व, ईडिध्वम् // 87 // रुत्पञ्चकाच्छिदयः / 4 / 4 / 88 // रुदादेः पञ्चतः परस्य 'व्यञ्जनादेः शितोऽयकारादेरादिरिट्' स्यात् / रोदिति, स्वपिति, प्राणिति, श्वसिति, जक्षिति / अयिति किम् ? रुद्यात् / शित इति किम् ? रोत्स्यति, स्वप्स्यति // 88 // दि-स्योरीटू / 4 / 4 / 89 // रुत्पञ्चकात् 'दिस्योः शितोरादिरीट्' स्यात् / अरोदीत्, अरोदीः // 89 // अदचाऽट् / 4 / 4 / 9 // अत्ते रुत्पञ्चकाच्च 'दिस्योः शितोरादिरट्' स्यात् / आदत्, आदः; अरोदत्,