________________ 258 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आदितो धातोः 'परयोः क्तयोरादिरिट् न' स्यात् / मित्रः, मिन्नवान् // 71 // नवा भावाऽऽरम्भे / 4 / 4 / 72 // आदितो धातो वाऽऽरम्भार्थयोः ‘क्तयोरादिरिट् वा न' स्यात् / मिन्नम्, मेदितम् प्रमिनः, प्रमिनवान्; प्रमेदितः, प्रमेदितवान् // 72 // शकः कर्मणि / 4 / 4 / 73 // शकेः कर्मणि 'क्तयोरादिरिट् वा न' स्यात् / शक्तः, शकितो वा घटः कर्तुम् // 73 // - णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्तम् / 4 / 4 / 74 // 'दमादीनां णौ तान्तानामेते वा निपात्यन्ते' / दान्तः, दमितः; शान्तः, शमितः; पूर्णः, पूरितः; दस्तः, दासितः; स्पष्टः, स्पाशितः; छन्नः, छादितः; ज्ञप्तः, ज्ञापितः // 74 // श्वस-जप-वम-रुष-त्वर-संघुषाऽऽस्वनाऽमः / 4 / 475 // एभ्यः ‘क्तयोरादिरिट् वा न' स्यात् / श्वस्तः, श्वसितः; विश्वस्तवान्, विश्वसितवान् / जप्तः, जप्तवान्; जपितः, जपितवान् / वान्तः, वान्तवान्; वमितः, वमितवान् / रुष्टः, रुष्टवान्; रुषितः, रुषितवान् / तूर्णः, तूर्णवान्; त्वरितः, त्वरितवान् / संघुष्टी, संघुषितौ दम्यौ; संघुष्टवान्, संघुषितवान् / आस्वान्तः, आस्वनितः; आस्वान्तवान्, आस्वनितवान् / अभ्यान्तः, अभ्यान्तवान्; अभ्यमितः, अभ्यमितवान् // 75 // हृषेः केश-लोम-विस्मय-प्रतिघाते / 4 / 476 // हृषेः केशाद्यर्थेषु 'क्तयोरादिरिट् वा न' स्यात् / हृष्टाः हृषिताः केशाः; हृष्टं हृषितं लोमभिः; हृष्टो हृषितश्चैत्रः; हृष्टाः हृषिताः दन्ताः // 76 / / अपचितः / 4 / 477 //