________________ - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 257 वर्तेर्वृत्तं ग्रन्थे / 4 / 4 / 65 // वृतेय॑न्तात् ते 'वृत्तं ग्रन्थविषये निपात्यते' / वृत्तो गुणश्छात्रेण / ग्रन्थ इति किम् ? वर्तितं कुङ्कुमम् // 65 // धृष-शसः प्रगल्भे / 4 / 4 // 66 // आभ्यां परयोः ‘क्तयोरादिः प्रगल्भ एवार्थ इट् न' स्यात् / धृष्टः, विशस्तः / प्रगल्म इति किम् ? धर्षितः, विशसितः // 66 // कषः कृच्छ्र-गहने / 4 / 4 / 67 // अनयोरर्थयोः कषेः 'परयोः क्तयोरादिरिट् न' स्यात् / कष्टं दुःखम्, कष्टोऽग्निः, कष्टं वनं दुरवगाहम् / कृच्छ्रगहन इति किम् ? कषितं स्वर्णम् // 67 // घुषेरविशब्दे / 4 / 4 / 68 // अविशब्दार्थाद् घुषेः 'परयोः क्तयोरादिरिट् न' स्यात् / घुष्टा रज्जुः, घुष्टवान् / अविशब्द इति किम् ? अवघुषितं वाक्यम् // 6 // . बलि-स्थूले दृढः / 4 / 4 / 69 // बलिनि स्थूले चार्थे दृहेहेर्वा तान्तस्य ‘दृढो निपात्यते' / दृढः / बलि-स्थूल इति किम् ? दृहितम्, इंहितम् // 69 // . क्षुब्ध-विरिब्ध-स्वान्त-ध्वान्त-लग्न-म्लिष्ट-फाण्ट-वाढ-परिवृदं मन्थ-स्वर-मनस्-तमस-सक्ताऽस्पष्टाऽनायास-भृश प्रभौ / 4 / 470 // 'एते क्तान्ता मन्यादिष्वर्येषु यथासङ्ख्यमनिटो निपात्यन्ते' / क्षुब्धः समुद्रः, क्षुब्धं वल्लवैः, विरिब्धः स्वरः, स्वान्तं मनः, ध्वान्तं तमः, लग्नं सक्तम्, म्लिष्टमस्पष्टम्, फाण्टमनायाससाध्यम्, वादं भृशम्, परिवृढः प्रभुः // 70 // आदितः / 4 / 471 //