________________ 254 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्लिशितः, क्लिशितवान्, क्लिशित्वा // 45 // सह-लुभेच्छ-रुष-रिषस्तादेः / 4 / 4 / 46 // एभ्यः परस्य 'स्ताद्यशितस्तादेरिड् वा' स्यात् / सोढा, सहिता; लोब्धा, लोभिता; एष्टा, एषिता; रोष्टा, रोषिता; रेष्टुम्, रेषितुम् // 46 // इवृध-भ्रस्ज-दम्भ-श्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृद् दरिद्रः सनः / 4 / 4 / 47 // इवन्ताद् ऋधादिभ्य ऋदन्तेभ्यो दरिद्रश्च परस्य ‘सन आदिरिड् वा' स्यात् / दुवूषति, दिदेविषति; ईसति, अदिधिषति; बिभक्षति, बिभर्जिषति; धिप्सति, धीप्सति, दिदम्भिषति; शिश्रीषति, शिश्रयिषति; युयूषति, यियविषति; प्रोणुनूषति, प्रोणुनविषति; बुभूषति, बिभरिषति; ज्ञीप्सति, जिज्ञपयिषति; सिषासति, सिसनिषति; तितंसति, तितनिषति; पित्सति, पिपतिषति; प्रावुर्षति, प्राविवरिषति; वुवूर्षते, विवरीषते; तितीर्षति, तितरीषति; दिदरिद्रासति, दिदरिद्रिषति // 47 // ऋ-स्मि-पूङञ्जशौ-कू-गृ-दृ-धृ-प्रच्छः / 4 / 4 / 48 // एभ्यः परस्य ‘सन आदिरिट्' स्यात् / अरिरिषति, सिस्मयिषते, पिपविषते, अञ्जिजिषति, अशिशिषते, चिकरीषति, जिगरीषति, आदिदरिषते, आदिधरिषते, पिपृच्छिषति // 48 // हनृतः स्यस्य / 4 / 4 / 49 // हन्तेः ऋदन्ताच्च परस्य ‘स्यस्याऽऽदिरिट्' स्यात् / हनिष्यति, करिष्यति // कृत-चूत-नृत-च्छूद-तृदोऽसिचः सादेर्वा / 4 / 450 // एभ्यः परस्या'ऽसिचः सादेः स्ताधशित आदिरिड् वा' स्यात् / कर्त्यति, कर्तिष्यति; चित्सति, चिचर्तिषति; नर्त्यति, नतिष्यति; अच्छय॑त्,