________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 255 अच्छर्दिष्यत्; तितृत्सति, तितर्दिषति / असिच इति किम् ? अकर्तीत् // गमोऽनात्मने / 4 / 451 // गमः परस्य ‘स्ताद्यशितः सादेरिट् स्यात्, न त्वात्मनेपदे' / गमिष्यति / अधिजिगमिषिता शास्त्रस्य / अनात्मने इति किम् ? संगंसीष्ट // 51 // स्नोः / 4 / 452 // स्नोः परस्य 'स्ताद्यशितोऽनात्मनेपदे आदिरिट्' स्यात् / प्रस्नविष्यति / अनात्मन इत्येव- प्रास्नोष्ट // 52 // क्रमः / 4 / 453 // क्रमः परस्य 'स्ताद्यशित आदिरिट् स्यात्, अनात्मनेपदे' / क्रमिष्यति, प्रक्रमितुम् / अनात्मन इत्येव-'प्रकंस्यते // 53 // तुः / 4 / 4 / 54 // अनात्मनेपदविषयात् क्रमः परस्य 'तु-स्ताद्यशित आदिरिट्' स्यात् / क्रमिता / अनात्मन इत्येव- प्रक्रन्ता // 54 // न वृद्भ्यः / 4 / 4 / 55 // वृदादिपञ्चकात् परस्य 'स्ताशित आदिरिट् न' स्यात्, न चेदसावात्मनेपदनिमित्तम् / वर्त्यति, विवृत्सति; स्यन्त्स्यति, सिस्यन्सति // 55 // - एकस्वरादनुस्वारेतः / 4 / 4 / 56 // एकस्वरादनुस्वारेतो धातोर्विहितस्य 'स्ताधशित आदिरिट् न स्यात् / पाता / एकस्वरादिति किम् ? अवधीत् // 56 // ऋवर्ण-यूर्तुगः कितः / 4 / 457 // . ऋवर्णान्ताद् धातोः श्रेलोच एकस्वराद् विहितस्य 'कित आदिरिट् न' स्यात् / वृतः, तीर्खा, श्रितः, ऊर्तुत्वा / एकस्वरादित्येव- जागरितः /