________________ 252 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् धातोः परस्य सादेस्तादेश्चाऽशित ‘आदिरिट् स्यात्, न तु त्रोणाद्योः' / लविष्यति, लविता / स्तादीति किम् ? भूयात् / अशित इति किम् ? आस्से / अत्रोणादेरिति किम् ? शस्त्रम्; वत्सः, हस्तः // 32 // तेर्ग्रहादिभ्यः / 4 / 4 // 33 // एभ्य एव परस्य स्ताद्यशितः 'तेरादिरिट्' स्यात् / निगृहीतिः, अपस्निहितिः / ग्रहादिभ्य इति किम् ? शान्तिः // 33 // गृहणोऽपरोक्षायां दीर्घः / 4 / 4 / 34 // 'अहेर्यो विहित इट्, तस्य दीर्घः स्यात्, न तु परोक्षायाम्' / ग्रहीता / अपरोक्षायामिति किम् ? जगृहिव // 34 // वृतो नवाऽनाशी:- सिच्यरस्मै च / 4 / 4 / 35 // वृभ्यामृदन्तेभ्यश्च परस्येटो 'दी? वा स्यात्, न तु परोक्षाऽऽशिषोः, सिचि च परस्मैपदे' / प्रावरीता, प्रावरिता; वरीता, वरिता; तितरीषति, तितरिषति / परोक्षाऽऽदिवर्जनं किम् ? ववरिथ, तेरिथ, प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः, आस्तारिषुः // 35 // . इट् सिजाशिषोरात्मने / 4 / 4 / 36 // वृतः परयोरात्मनेपदविषये 'सिजाशिषोरादिरिट वा' स्यात् / प्रावृत, प्रावरिष्ट; अवृत, अवरीष्ट; आस्तीर्ट, आस्तरिष्ट; प्रावृषीष्ट, प्रावरिषीष्ट; वृषीष्ट, वरिषीष्ट; आस्तीर्षीष्ट, आस्तरिषीष्ट / आत्मने इति किम् ? प्रावारीत् // 36 // ___ संयोगाद् ऋतः / 4 / 4 / 37 // 'धातोः संयोगात् परो य ऋत् तदन्तात् परयोरात्मनेपदविषयसिजाशिषोरादिरिद वा' स्यात् / अस्मरिषाताम्, अस्मृषाताम्; स्मरिषीष्ट, स्मृषीष्ट / संयोगादिति किम् ? अकृत // 37 // धूगौदितः / 4 / 4 // 38 //