________________ 247 . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अनव्ययस्येति किम् ? दिवाभूता रात्रिः // 111 // __ क्यनि / 4 / 3 / 112 // अवर्णान्तस्य क्यनि 'ई:' स्यात् / पुत्रीयति / मालीयति // 112 // क्षुत-तृड्-गद्धेऽशनायोदन्य-धनायम् / 4 / 3 / 113 // एष्वर्थेषु 'यथासंख्यमशनायादयः क्यन्नन्ता निपात्यन्ते' / अशनायति, उदन्यति, धनायति / क्षुदादाविति कम् ? अशनीयति, उदकीयति, धनीयति दातुम् // 113 // वृषाऽश्वानुमैथुने स्सोऽन्तः / 4 / 3 / 114 // आभ्यां मैथुनार्थाभ्यां क्यनि ‘स्सोऽन्तः' स्यात् / वृषस्यति गौः, अश्वस्यति वडवा / मैथुन इति किम् ? वृषीयति, अश्वीयति ब्राह्मणी / / 114 // - अस् च लौल्ये / 4 / 3 / 115 // भोगेच्छातिरेको लौल्यम्, तत्र गम्ये क्यनि परे 'नाम्नः स्सोऽस् चान्तः' स्यात् / दधिस्यति, दध्यस्यति / लौल्य इति किम् ? क्षीरीयति दातुम् // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः समाप्तः // 4 // 3 // कर्णं च सिन्धुराजं च, निर्जित्य युधि दुर्जयम् / श्रीभीमेनाधुना चक्रे, महाभारतमन्यथा // 15 // चतुर्थः पादः] .. अस्ति-ब्रुवोभू-वचावशिति / 4 / 4 / 1 // अस्ति-ब्रुवोर्यथासंख्यम् भू-वचौ स्याताम् अशिति विषये' / भव्यम्, अवोचत् / अशितीति किम् ? स्यात्, ब्रूते // 1 //