________________ 246 -श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 'शीङः शित्येः' स्यात् / शेते // 104 // ... क्ङिति यि शय / 4 / 3 / 105 // शीङः क्छिति यादौ 'शय' स्यात् / शय्यते, शाशय्यते / ङितीति किम् ? शेयम् // 105 // उपसर्गादूहो इस्वः / 4 / 3 / 106 // उपसर्गात् परस्योहतेस्तः क्ङिति यादौ परे ‘ह्रस्वः' स्यात् / समुह्यते / उपसर्गादिति किम् ? ऊह्यते / यीत्येव- समूहितम् / ऊ ऊह इति प्रश्लेषः किम् ? आ ऊह्यते-ओह्यते, समोह्यते // 106 // . आशिषीणः / 4 / 3 / 107 // उपसर्गात् परस्येण ईतः विडति यादावाशिषि ‘ह्रस्वः' स्यात् / उदियात् / ई इण इति प्रश्लेषः किम् ? आ ईयात्-एयात्, समेयात् // 107 // दीर्घश्चियङ्-यक-क्येषु च / 4 / 3 / 108 // एषु यादावाशिषि च 'दीर्घः' स्यात् / शुचीकरोति; तोष्ट्रयते; मन्तूयति; दधीयति, भृशायते, लोहितायते, स्तूयते; ईयात् // 108 // ऋतो रीः / 4 / 3 / 109 // च्यादौ परे ऋदन्तस्य ऋतः स्थाने 'रीः' स्यात् / पित्रीस्यात्, चेक्रीयते, मात्रीयते, पित्रीयते / ऋत इति किम् ? चेकीर्यते // 109 // रिः श-क्या-5ऽशीर्ये / 4 / 3 / 110 // ऋदन्तस्य धातोः ऋतः शे क्ये आशीर्ये च परे 'रिः' स्यात् / व्याप्रियते, क्रियते, ह्रियात् // 110 // ईश्च्वाववर्णस्या-5नव्ययस्य 1431111 // अनव्ययस्याऽवर्णान्तस्य च्चौ 'ई:' स्यात् / शुक्लीस्यात्, मालीस्यात् /