________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् __ 15 पदान्तस्थस्य रस्य च-ट-तेषु संद्वितीयेषु परेषु यथासंख्यम् 'श-ष-सा नित्यं' स्युः / कश्चरः, कश्छन्नः, कष्टः, कष्ठः, कस्तः, कस्थः // 7 // नोऽप्रशानोऽनुस्वाराऽनुनासिकौ च पूर्वस्याऽधुटपरे 1 // 3 // 8 // पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य च-ट-तेषु सद्वितीयेषु अधुट्परेषु, 'श-ष-सा' यथासंख्यं स्युः, 'अनुस्वाराऽनुनासिकौ चाऽऽगमाऽऽदेशी' पूर्वस्य क्रमेण स्याताम् / भवांश्चरः, भवाँश्चरः / भवांश्छ्यति, भवाँश्छ्यति / भवांटकः, भवाष्टकः / भवांष्ठकारः भवाँष्ठकारः ।भवांस्तनुः, भवाँस्तनुः / भवांस्थुडति, भवाँस्थुडति / अप्रशान् इति किम् ? प्रशाञ्चरः / अधुट्पर इति किम् ? भवान्त्सरुकः // 8 // पुमोऽशिट्यघोषेऽख्यागि रः // 13 // 9 // 'पुम्' इति पुंसः संयोगलुक्यनुकरणम्, अधुटपरे अघोषे शिट्-ख्यागिवर्जे परे 'पुम्' इत्येतस्य 'रः' स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य / पुंस्कामा, (स्कामा / अशिटीति किम् ? पुंशिरः / अघोषे इति किम् ? पुंदासः / अख्यागीति किम् ? पुंख्यातः / अधुट्पर इत्येव- पुंक्षारः // 9 // नृनः पेषु वा // 1 // 3 // 10 // 'नन्' इति शसन्तस्यानुकरणम् / नूनः पे परे ‘रो वा' स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य / न) (पाहि, न) (पाहि, न:पाहि नृन्पाहि // 10 // द्विः कानः कानि सः / 1 / 3 / 11 // कानः किमः शसन्तस्यानुकरणम् / द्विरुक्तस्य कानः कानि परे ‘सः' स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य / कांस्कान्, काँस्कान् / द्विरिति किम् ? कान् कान् पश्यति // 11 // स्सटि समः / 1 / 3 / 12 //