________________ 14 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् (तृतीयः पादः). तृतीयस्य पञ्चमे / / 3 / 1 // वेति पदान्त इति अनुनासिक इति च अनुवर्त्तते / वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परे अनुनासिको वा' स्यात् / वाङ्वते वाग्ङवते ककुम्मण्डलम्, ककुब्मण्डलम् // 1 // प्रत्यये च // 1 // 3 // 2 // पदान्तस्थस्य तृतीयस्य प्रत्यये पञ्चमे परे अनुनासिको नित्यं' स्यात् / वाङ्मयम्, षण्णाम् / च उत्तरत्र वाऽनुवृत्त्यर्थः // 2 // ततो हश्चतुर्थः / 1 / 3 / 3 // पदान्तस्थात् ततः- तृतीयात् परस्य हस्य 'पूर्वसवर्गश्चतुर्थो वा' स्यात् / वाग्घीनः, वागहीनः / ककुब्भासः, ककुब्हासः // 3 // प्रथमादधुटि शश्छः / 1 / 3 / 4 // पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे 'छो वा' स्यात् / वाक्छूरः, वाक्शूरः / त्रिष्टुप्छ्रतम्, त्रिष्टुप्श्रुतम् / अधुटीति किम् ? वाक्श्च्योतति // 4 // रः कख-पफयोः क- पौ / 1 / 3 / 5 // पदान्तस्थस्य रस्य कखे पफे च परे यथासंख्यं 'क-) पौ वा' स्याताम् / कः करोति, कः करोति / क खनति, कः खनति / क)( पचति, कः पचति / कस.फलति, कः फलति / / 5 / / श-ष-से श-ष-सं वा / 113 // 6 // पदान्तस्थस्य रस्य श-ष-सेषु परेषु यथासंख्यम् 'श-ष-सा वा'स्युः / कश्शेते, कः शेते / कष्षण्ढः, कः षण्ढः / कस्साधुः, कः साधुः / / 6 / / - च-ट-ते स-द्वितीये / 113 // 7 //