________________ 210 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् / 'स्फायतेः क्तयोः परयोः स्फीर्वा' स्यात् / स्फीतः, स्फीतवान्; स्फातः, स्फातवान् // 14 // प्रसमः स्त्यः स्ती / 4 / 1 / 95 // 'प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः' स्यात् / प्रसंस्तीतः, प्रसंस्तीतवान् / प्रसम इति कम् ? संप्रस्त्यानः // 95 // प्रात् तश्च मो वा / 4 / 1 / 96 // 'प्रात् केवलात् परस्य स्त्यः क्तयोः परयोः स्तीः स्यात्, क्तयोस्तो मश्च वा' / प्रस्तीतः, प्रस्तीतवान्। प्रस्तीमः, प्रस्तीमवान् // 16 // श्यः शीर्द्रवमूर्ति-स्पर्शे नश्वाऽस्पर्शे / 4 / 1 / 97 // मूर्तिः काठिन्यम्, 'द्रवमूर्ति-स्पर्शार्थस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे च क्तयोस्तोऽस्पर्शविषये नश्च' / शीनम्, शीनवद् घृतम्, शीतं वर्तते, शीतो वायुः // 97 // प्रतेः / 4 / 1198 // 'प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्, तद्योगे क्तयोः तो न च' / प्रतिशीनः, प्रतिशीनवान् // 98 // वाऽभ्यवाभ्याम् / 4 / 1 / 99 // आभ्यां परस्य 'श्यः क्तयोः परयोः शीर्वा स्यात्, तद्योगे च क्तयोस्तोऽस्पर्श नश्च' / अभिशीनः, अभिशीनवान्; अभिश्यानः, अभिश्यानवान्; अवशीनम्, अवश्यानं हिमम्; अवशीनवान्, अवश्यानवान् // 19 // . श्रः शृतं हविः-क्षीरे / 4 / 1100 // 'श्रातेः श्रायतेश्च ते हविषि क्षीरे चार्थे शृर्निपात्यते' / शृतं हविः, शृतं क्षीरं स्वयमेव / हविःक्षीर इति किम् ? श्राणा यवागूः // 100 //